Page loading... Please wait.
4|4|28 - तत् प्रत्यनुपूर्वमीपलोमकूलम्
॥ तस्मै पाणिनये नमः ॥
4|4|28
SK 1578
तत् प्रत्यनुपूर्वमीपलोमकूलम्   🔊
सूत्रच्छेदः
तत् (द्वितीयैकवचनम्) , प्रति-अनुपूर्वम् (द्वितीयैकवचनम्) , ईप-लोम-कूलम् (द्वितीयैकवचनम्)
अनुवृत्तिः
वर्तते  4|4|27 (क्रियापदम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् प्रति-अनुपूर्वम् ईप-लोम-कूलम् वर्तते" इति समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"प्रति"पूर्वकः "अनु"पूर्वकः च यः ईप/लोम/कूल-शब्दः, तस्मात् द्वितीयासमर्थात् "वर्तते" अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
अस्य सूत्रस्य अर्थम् सम्यक् ज्ञातुम् प्रारम्भे बिन्दुद्वयम् ज्ञातव्यम् -

1. अस्मिन् सूत्रे "ईप", "लोम", "कूल" एते शब्दाः प्रयुक्ताः सन्ति । एतेषाम् अर्थाः एतादृशाः - ईप इत्युक्ते जलम् । लोम इत्युक्ते केशः । कूल इत्युक्ते तीरम् । परन्तु "प्रति" तथा "अनु" एताभ्यां सह एतेषां योजनं भवति चेत् निर्मिताः शब्दाः भिन्नम् अर्थं स्वीकुर्वन्ति, तेषाम् "जलम् / केश / तीर" इत्येतैः सह कोऽपि सम्बन्धः न विधीयते । यथा -
[अ] प्रति + ईप → प्रतीप । प्रति + लोम → प्रतिलोम । प्रति + कूल → प्रतिकूल । एतेषां त्रयाणाम् शब्दानाम् अर्थः "विपरीत" इत्येव भवति । तथैव -
[आ] अनु + ईप → अन्वीप । अनु + लोम → अनुलोम । अनु + कूल → अनुकूल । एतेषां त्रयाणाम् शब्दानाम् अर्थः अपि समानः एव ।
अस्मिन् विषये बालमनोरमायाम् उच्यते - " प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ" । अस्यापि अयमेव अर्थः ।

2. अस्मिन् सूत्रे "तत्" इति द्वितीयासमर्थः प्रयुक्तः अस्ति । वस्तुतः "वृत्" धातुः अकर्मकः अस्ति, अतः तस्य प्रयोगे कर्मपदम् न विधीयते। अतः अत्र "प्रतीप", "अन्वीप", "प्रतिलोम", "अनुलोम", "प्रतिकूल", "अनुकूल" - एतेषां सर्वेषाम् प्रयोगः द्वितीयायां कथं भवितुम् अर्हति - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - "क्रियाविशेषणम् अकर्मकाणाम् अपि कर्म भवति" । इत्युक्ते, एते सर्वे शब्दाः "वर्तते" इत्यनेन सह क्रियाविशेषणरूपेण प्रयुज्यन्ते ।

इदानीम् अस्य सूत्रस्य अर्थः स्पष्टः स्यात् - "प्रतीपं वर्तते / अन्वीपं वर्तते / प्रतिलोमं वर्तते / अनुलोमं वर्तते / प्रतिकूलं वर्तते / अनुलोमं वर्तते" एतेषु वाक्येषु द्वितीयासमर्थात् ठक् प्रत्यय भवति । यथा -

1. प्रतीपं वर्तते सः प्रातिपिकः । प्रतिलोमं वर्तते सः प्रातिलोमिकः । प्रतिकूलं वर्तते सः प्रातिकुलिकः । त्रयाणाम् अर्थाः समानाः एव । यथा - प्रातिपिकः / प्रातिलोमिकः / प्रातिकुलिकः निर्णयः इत्युक्ते विपरीतः निर्णयः ।

2. अन्वीपं वर्तते सः आन्वीपिकः ।अनुलोमं वर्तते सः आनुलोमिकः । अनुकूलं वर्तते सः आनुकुलिकः । अत्रापि त्रयाणाम् अर्थाः समानाः सन्ति । यथा - आन्विपिकः आनुलोमिकः आनुकुलिकः वा निश्चयः ।

ज्ञातव्यम् - "प्रतीप" तथा "अन्वीप" एतौ शब्दौ वस्तुतः "प्रति + आप्" तथा "अनु + आप्" एतादृशं बहुव्रीहिसमासेन निर्मिताः सन्ति । अत्र प्रक्रियायाम् द्वयन्तरुपसर्गेभ्योऽप ईत् 6|3|97 इत्यनेन आकारस्य ईकारादेशं कृत्वा अग्रे सन्धिकार्यं च कृत्वा एतयोः निर्माणं भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवं पूर्वेभ्यः ईपलोमकूलशब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः? क्रियाविश्षणम् अकर्मकाणाम् अपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः।
`प्रातीपिकः` इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। `ऋक्पूरब्धूःपथामानक्षे` 5|4|74 इत्यकारः समासान्तः। एवञ्च `द्व्यन्तरुपसर्गेभ्योऽप ईत्` 6|3|96 इतीत्त्वम्। अपरत्र तु `ऊदनोर्देशे` 6|3|97 इति देशादन्यत्रोत्त्वमेव, ततष्ठक्। `{प्रातिलोमिकः, आनलोमिकः--काशिका,पदमञ्जरी च।} प्रातिलोमिकम्, आनुलोमिकम्` इति। प्रतिगतानि लोमान्यस्य , अनुगतानि लोमान्यस्येति बहुव्रीहिः। `अच् प्रत्यनु` 5|4|75 इत्यादिनाऽच् समासान्तः॥
क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे---वर्तते उ वर्तनं करोति, सुप्यते उ स्वापः क्रियते, शोभनमोदनं पच्यते उ ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति । प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, ठृक्पूरब्धूःऽ इत्यिकारः समासान्तः, ठ्द्व्यन्तरुपसर्गेभ्योऽप ईत्ऽ इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । ठूदनोर्देअशेऽ इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, ठच् प्रत्यन्ववपूर्वात्ऽ इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ॥
सिद्धान्तकौमुदी
द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥
तत् प्रत्यनुपूर्वमीपलोमकूलम् - तत्प्रत्यनुपूर्व ।त॑दिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह — क्रियाविशेषणत्वादिति । इदंच कारकनिरूपणे निरूपितम् ।क्रियाविशेषणानां प्रतमान्तत्वमेवे॑ति तु शब्देन्दुशेखरे प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । "ऋक्पूः" इत्यकारः समासान्तः । द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति ईत्त्वम् । अनुगता आपो यस्मिन् तदन्वीपम् । "ऊदनोर्देशे" इत्यूत्त्वं तु न, अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् ।
तत् प्रत्यनुपूर्वमीपलोमकूलम् - तत्प्रत्यनु । वृतेरकर्मकत्वात्कथं तस्य द्वितीयान्ते नप्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाह — -क्रियाविशेषणत्वादिति । प्रतीपमिति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः ।ऋक्पूः॑इत्यकारः समासान्तः ।व्द्यन्तरूपसर्गेभ्यः॑इति ईत्वम् । व्युत्पत्तिमात्रमिदम् । प्रतिकूलाऽनुकूलपर्याया हीमे रूढिशब्दः । आन्वीपिक इति ।अन्वीप ॑मित्यत्रऊदनोर्देशे॑इत्युत्वं तु न भवति, अदेशत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.