Page loading... Please wait.
4|4|24 - लवणाल्लुक्
॥ तस्मै पाणिनये नमः ॥
4|4|24
SK 1574
लवणाल्लुक्   🔊
सूत्रच्छेदः
लवणात् (पञ्चम्येकवचनम्) , लुक् (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , संसृष्टे  4|4|22 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन संसृष्टे" इति लवणात् लुक्
सूत्रार्थः
"संसृष्टम्" अस्मिन् अर्थे तृतीयासमर्थात लवणशब्दात् विहितस्य प्रत्ययस्य लुक् भवति ।
"संसृष्टम्" इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् "लवणम्" अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् "लवण"शब्दात् संसृष्टे 4|4|22 इत्यनेन ठक्-प्रत्यये कृते वर्तमानसूत्रेण तस्य लुक् ( = लोपः) भवति । यथा, लवणेन संसृष्टम् = लवण + ठक् → लवण + X → लवण । लवणेन संसृष्टम् लवणम् शाकम्, लवणः सूपः ।

अस्मिन् विषये काशिकाकारः वदति - "द्रव्यवाची" लवणशब्दः लुकं प्रयोजयति, न गुणवाची । इत्युक्ते, "लवण" नाम यः पदार्थः अस्ति (common salt) तस्यैव निर्देशः अस्मिन् सूत्रे क्रियते, न हि "लवण" इति रसस्य ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
संसृष्ते 4|3|22 इत्यनेन उत्पन्नस्य ठको लवणशब्दाल् लुक् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची।
`द्रव्यवाची` इत्यादि। लवणशब्दोऽयमस्त्येव गुणवचनो यो रसविशेषे वत्र्तते, रसस्य गुणत्वात्। अस्ति द्रव्यवचनः, यथा--पञ्च लवणानीति। तत्र यो गुणवचनः स लुकं न प्रयोजनयति। गुणैर्हि यद्यपि द्रव्यं न संसृज्यते, तथापि गुणशब्दाः `सोऽयम्` इत्यभेदेन सम्बन्धाद्द्रव्ये वत्र्तन्ते, यथा-- शुक्लः पटः, {क्षारम्---मुद्रितः पाठः} क्षौरम्, अम्लं दधीति; तथा लवणशब्दोऽपि वर्तिष्यते, ततः किं लुका? अवश्यं तदेवं विज्ञायम्, अन्यथा हि मधुरादिभ्योऽपि लुग्वक्तव्यः स्यात्। द्रव्यशब्दास्त्वन्यत्र सोऽयमित्यभेदसमर्थनान्न वत्र्तन्ते। तस्माद्द्रव्यवाची लवणशब्दो लुकं प्रयोजयति॥
लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः--षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते---प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥
सिद्धान्तकौमुदी
लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥
लवणाल्लुक् - लवणाल्लुक् ।पूर्वसूत्रविहितस्ये॑ति शेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लवणाल्लुक् (1762) (लुकोऽधिकरणम्) (5564 सूत्रप्रत्याख्याने वार्तिकम्।। 1 ।।) - लवणाल्लुग्वचनानर्थक्यं रसवाचित्वात् - (भाष्यम्) लवणाल्लुग्वचनमनर्थकम्। किं कारणम्? रसवाचित्वात्। रसवाच्येष लवणशब्दः, नैष संसृष्टिनिमित्तः। आतश्च रसवाची।। (5565 लवणशब्दस्य रसवाचकत्वबोधकवार्तिकम्।। 2 ।।) - असंसृष्टे च दर्शनात् - (भाष्यम्) असंसृष्टेऽपि हि लवणशब्दो वर्तते। तद्यथा ‐ लवणं क्षीरम्, लवणं पानीयमिति।। (5566 रसवाचकत्वबोधकवार्तिकम्।। 3 ।।) - संसृष्टे चादर्शनात् - (भाष्यम्) संसृष्टेऽपि च यदा नोपलभ्यते, तदाह ‐ अलवणः सूपः, अलवणा यवागूः, अलवणं शाकमिति।।