Page loading... Please wait.
4|4|22 - संसृष्टे
॥ तस्मै पाणिनये नमः ॥
4|4|22
SK 1572
संसृष्टे   🔊
सूत्रच्छेदः
संसृष्टे (सप्तम्येकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन संसृष्टे" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"संसृष्टम्" अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
"संसृष्टम्" इत्युक्ते "एकीकृतम्" । एकीकृतः यः पदार्थः, तस्य निर्देशः एकीकरणस्य साधनेन कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - दध्ना संसृष्टम् दाधिकम् , मरिचेन संसृष्टम् मारिचिकम् ।

प्रक्रिया इयम् -
दधि + ठक्
→ दधि + इक [ठस्येकः 7|3|50 इति ठकारस्य इकारादेशः]
→ दाधि + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ दाध् + इक [यस्येति च 6|4|148 इति इकारलोपः]
→ दाधिक
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेन इत्येव। तृतीयासमर्थात् संसृष्टे इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टम् एकीभूतम् अभिन्नम् इत्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
ननु यद्येन संसृष्ट्ंअ ततेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानम् उ संस्कारः, एकीभावस्तु उ संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात्---विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्तिधर्मत्वात् । किञ्च ठ्कुलत्थकोपधादण्ऽ संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ॥
सिद्धान्तकौमुदी
दध्ना संसृष्टं दाधिकम् ॥
संसृष्टे - संसृष्टे । संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
दध्ना संसृष्टं दाधिकम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.