Page loading... Please wait.
4|4|21 - अपमित्ययाचिताभ्यां कक्कनौ
॥ तस्मै पाणिनये नमः ॥
4|4|21
SK 1571
अपमित्ययाचिताभ्यां कक्कनौ   🔊
सूत्रच्छेदः
अपमित्य-याचिताभ्याम् (पञ्चमीद्विवचनम्) , कक्-कनौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , निर्वृत्ते  4|4|19 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन निर्वृत्ते" (इति) अपमित्य-याचिताभ्याम् कक्-कनौ
सूत्रार्थः
"निर्वृत्तम्" अस्मिन् अर्थे "अपमित्य"शब्दात् कक्-प्रत्ययः, यथा "याचित"शब्दात् कन्-प्रत्ययः भवति ।
"अपमित्य" इति "अप + माङ्" इत्यस्य ल्यप्-प्रत्ययान्तरूपम् । "व्यतिहारं / विनिमयं कृत्वा" इति तस्य अर्थः । "याचित" इति "याच" धातोः क्त-प्रत्ययान्तरूपम् । "याचनां कृत्वा प्राप्तम्" इति तस्य अर्थः । "अपमित्य" तथा "याचित" एताभ्याम् शब्दाभ्याम् "निर्वृत्तम्" अस्मिन् अर्थे क्रमेण कक् तथा कन्-प्रत्ययौ भवतः । यथा -

1. अपमित्य निर्वृत्तम् तत् = अपमित्य + कक् → आपमित्यक ।
2. याचितेन निर्वृत्तम् तत् = याचित + कन् → याचितक ।

ज्ञातव्यम् -
1. "अपमित्य" इति अव्ययम् अस्ति, अतः तस्मात् विहितस्य तृतीयायाः प्रत्ययस्य अव्ययादाप्सुपः 2|4|82 इत्यनेन लुक् भवति । अतएव विग्रहवाक्ये "अपमित्य निर्वृत्तम्" इत्येव उच्यते ।
2. वस्तुतः "याचित"शब्दात् कक्-प्रत्ययं कृत्वा अपि "याचितक" इत्येव रूपं सिद्ध्यति । परन्तु स्वरविशेषं दर्शयितुम् "कन्" इति नित्-प्रत्ययस्य विधानं क्रियते । ञ्नित्यादिर्नित्यम् 6|1|197 अनेन सूत्रेण "नित्" प्रत्यये परे समुदायस्य आदिस्वरः उदात्तः जायते । यथा, कन्-प्रत्ययान्तस्य "याचितक"शब्दस्य आदिस्वरः आकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । यदि अत्र "कक्" प्रत्ययः अभविष्यत्, तर्हि कितः6|1|165 इत्यनेन समुदायस्य अन्तिमस्य स्वरस्य उदात्तत्वे प्राप्ते समुदायस्य आदिस्वरः अनुदात्तं पदमेकवर्ज्यम् 6|1|158 इत्यनेन अनुदात्तः अभविष्यत् । तत् तथा मा भूत्, इति निर्देशयितुम् कन्-प्रत्ययः अत्र प्रोच्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक् कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्।
`अपमित्य` इति। `उदीचां माङो व्यतीहारे` 3|4|19 इति क्त्वा, तस्य ल्यबादेशे कृते,अपमित्येति भवति। तस्य च `क्त्वासोसुन्कसुनः` 1|1|39 इत्यव्ययसंज्ञा। तेन तृतीयासमर्थविभक्त्याधिकारेऽप्यविभक्तिकादेवास्मात् प्रत्ययविधिः॥ननु च `संस्कृतम्` 4|4|3 इत्येव संसृष्टे प्रत्यययो भविष्यति, यत् पुनर्येन संसृष्टं तत्तेन संस्कृतं भवति? नैतत्; सतो ह्रुत्कर्षाधानं संस्कारः,एकभावः संसर्गः। न च तत्रोत्कर्षेण भवितव्यम्, स्वशुचिद्रव्यसंसर्गे स्वप्रकर्ष एव भवति, नोत्कर्षः। संसर्गमात्रे प्रत्यय इष्यते; तस्मात् संसृष्ट इति वक्तव्यमेव; एतदेव क्रियताम्; किं `संस्कृतम्` 4|4|3 इत्यनेन? असत्यपि संसर्गे यत्र संस्कृतमस्ति तत्रापि प्रत्यय इष्यते-- वैद्यिकः, न विद्यया संसर्ग उपपद्यते; संसर्गो द्रव्ययोरेव भवति, यथा--दण्डपुरुषयोः। मूर्तिमतस्तद्धर्मत्वात्, रन तु विद्या मूर्त्तिमती। कुलत्थकोलधादणो 4|4|4 विधानार्थं संस्कृतग्रहणं कत्र्तव्यम्। न हि संसृष्टमात्रे प्रत्यय इष्यते; किन्तु तत्कृतगुणाधाने॥
अपमित्येति । ठुदीचां माङे व्यतिहारेऽ इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्, ठ्मयतेरिदन्यतरस्याम्ऽ इतीत्वम्, ठ्क्त्वातोसुन्कसुनःऽ इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ॥
सिद्धान्तकौमुदी
अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥
अपमित्ययाचिताभ्यां कक्कनौ - अपमित्ययाचिताभ्याम् । ल्यबन्धमिति । "मेङ् प्रणिदाने" इत्यस्यमादिंवनिमयार्थकात्उदीचां माहो व्यतिहारे॑ इति क्त्वाप्रत्यये गतिसमासे ल्यपिमयतेरिदन्यतरस्या॑मिति इत्त्वेह्यस्वस्य पिती॑ति तुगागमे अपमित्येत्यव्ययम्, "क्त्वातोसुन्कसुनः" इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात्कक् कन् च यथासङ्ख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वाऽसंभवात्प्रथमान्तादिति लभ्यते ।
अपमित्ययाचिताभ्यां कक्कनौ - अपमित्येति ।उदीचां माङः॑इति क्त्वाप्रत्यनेन सह गतिसमासः । क्त्वो ल्यप् ।मयतेरिदन्यतरस्या॑मिति इत्त्वम् ।ह्यस्वस्ये॑ति तुक् । ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किन्तु वचनात्प्रथमान्तादेव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.