Page loading... Please wait.
4|4|18 - अण् कुटिलिकायाः
॥ तस्मै पाणिनये नमः ॥
4|4|18
SK 1568
अण् कुटिलिकायाः   🔊
सूत्रच्छेदः
अण् (प्रथमैकवचनम्) , कुटिलिकायाः (पञ्चम्येकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , हरति  4|4|15 (क्रियापदम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन हरति" (इति) कुटिलिकायाः अण्
सूत्रार्थः
"हरति" अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति ।
"कुटिलिका" (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् "हरति (= अन्यत्र नयति / हरणं करोति)" अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् -

कुटिलिका + अण्
→ कौटिलिका + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कौटिलिक् + अ [यस्येति च 6|4|148 इति आकारलोपः]
→ कौटिलिक
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हरति इत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो ह्बवति हरति इत्येतस्मिन्नर्थे। कुटिलिकाया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारात् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्च उच्यते।
Text Unavailable. Please use feedback link below to provide the text if you have.
कुटिलव्याधानामुपरमणम् उ कुटिलिका, संज्ञायां कन् ॥
सिद्धान्तकौमुदी
कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥
अण् कुटिलिकायाः - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.