Page loading... Please wait.
4|4|17 - विभाषा विवधवीवधात्‌
॥ तस्मै पाणिनये नमः ॥
4|4|17
SK 1567
विभाषा विवधवीवधात्‌   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , विवध-वीवधात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , हरति  4|4|15 (क्रियापदम्) , ष्ठन्  4|4|16 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन हरति" इति विवध-वीवधात् विभाषा ष्ठन्
सूत्रार्थः
"हरति" अस्मिन् अर्थे तृतीयासमर्थात् "विवध"शब्दात् तथा "वीवध"शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति । पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।
"हरति (= अन्यत्र नयति / हरणं करोति") अस्मिन् अर्थे विवध / वीवध (= बन्धनार्थम् प्रयुज्यमाना शृङ्खला) एताभ्यां शब्दाभ्याम् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे प्राग्वहतेष्ठक् 4|4|1 इति औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।
यथा -

1. विवधेन हरति सः
= विवध + ष्ठन्
→ विवध + ठ [षकारनकारयोः इत्संज्ञा, लोपः]
→ विवध + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ विवध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ विवधिक

स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4|1|41 इत्यनेन ङीष्-प्रत्ययं कृत्वा "विवधिकी" इति रूपं सिद्ध्यति ।

2. विवधेन हरति सः
= विवध + ठक्
→ विवध + ठ [ककारस्य इत्संज्ञा, लोपः]
→ विवध + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ वैवध + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ वैवध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ वैवधिक
स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्-प्रत्ययं कृत्वा वैवधिकी" इति रूपं सिद्ध्यति ।

एवमेव "वीवध" शब्दात् अपि "वीवधिक" तथा "वैवधिक" एते प्रातिपदिके सिद्ध्यतः ।

ज्ञातव्यम् - कौमुद्यां भाष्ये च एतत् सूत्रम् "विभाषा विवधात्" इत्येव दत्तम् अस्ति । वीवधा-शब्दस्य कृते अपि अस्य सूत्रस्य प्रयोगः भवेत् एतत् निर्देशयितुम् भाष्यकारः वीवधाच्चेति वक्तव्यम् इति वार्त्तिकं पाठयति । कौमुदीकारः तु एकदेशविकृतमनन्यवत् अनया परिभाषया "विवध"शब्दवत् एव "वीवध"शब्दात् अपि एतौ प्रत्ययौ भवतः इति निर्देशयति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हरति इत्येव। विवधवीवधशब्दाभ्याम् तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतः ठग् भवति। विवधेन हरति विवधिकः। विवधिकी। वीवधिकः। विवधिकी। ठक् खल्वपि वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते।
`पर्याहारे` इति। परितः स ह्यियत इति पर्याहारः, मण्डलादिकमुच्यते॥
पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥
सिद्धान्तकौमुदी
विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥
विभाषा विवधात् (विवधवीवधात्) - विभाषा विवधात् ।हरतीत्यर्थे तृतीयान्तात् ष्ठ॑निति शेषः ।
विभाषा विवधात् (विवधवीवधात्) - एकदेशविकृतस्येति ।वीवधाच्चेति वक्तव्य॑मिति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः । वृत्तिकृत्तु सूत्रे वीवशब्दं प्रक्षिप्यविभाषा विवधवीवधा॑दिति पपाठ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा विवधात् (1755) (ष्ठनो विभाषाधिकरणम्) (5561 पूरकवार्तिकम्।। 1 ।।) - वीवधाच्चेति वक्तव्यम् - वैवधिकः।।