Page loading... Please wait.
4|4|16 - भस्त्रादिभ्यः ष्ठन्
॥ तस्मै पाणिनये नमः ॥
4|4|16
SK 1566
भस्त्रादिभ्यः ष्ठन्   🔊
सूत्रच्छेदः
भस्त्रा-आदिभ्यः (पञ्चमीबहुवचनम्) , ष्ठन् (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , हरति  4|4|15 (क्रियापदम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन हरति" (इति) भस्त्रादिभ्यः ष्ठन्
सूत्रार्थः
भ्रस्त्रादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः "हरति" अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।
भस्त्रादिगणे ये शब्दाः पाठ्यन्ते, तेभ्यः तृतीयासमर्थेभ्यः "हरति" (= दूरं नयति / हरणं करोति) अस्मिन् अर्थे ष्ठन्-प्रत्ययः विधीयते ।

भस्त्रादिगणः अयम् - भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार ।

उदाहरणम् - भस्त्रया हरति सः
= भस्त्र + ष्ठन्
→ भस्त्र + ठ [षकारनकारयोः इत्संज्ञा, लोपः]
→ भस्त्र + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ भस्त्र् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ भस्त्रिक ।

ष्ठन्-प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् "षिद्गौरादिभ्यश्च 4|1|41 इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम्" इति वर्तते । अतः "भस्त्रया हरति सा" इत्यत्मिन् अर्थे भस्त्र + ष्ठन् + ङीष् → भस्रिकी इति रूपं सिद्ध्यति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भस्त्रा इत्येवम् आदिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी। भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः।
भस्त्रादिषु `शीर्षेभार` इति पठते। तत्रास्मादेव निपातनाच्छिरसः शीर्षभावः, `सप्तमी` 2|1|39 इति योगविभागात्समासः, `तत्पुरुषे कृति बहुलम्` 6|3|13 इति पक्षे सप्तम्या अलुक्॥
भस्त्रम् उ चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते, ठ्हूयामाश्रुभसिभ्यस्त्रन्ऽ इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च, ठ्तत्पुरुषे कृति बहुलम्ऽ इति सप्तम्या अलुक् ॥
सिद्धान्तकौमुदी
भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥
भस्त्राऽ‌ऽदिभ्यः ष्ठन् - भस्त्रादिभ्यः ष्ठन् ।ष्ठ॑निति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः । षित्त्वादिति ।ङी॑षिति शेषः ।
भस्त्राऽ‌ऽदिभ्यः ष्ठन् - भस्त्रदिभ्यः ष्ठन् । भस्त्रा चर्मबिकारः ।॒शीर्षेभार॑शब्दोऽत्र पटते । निपातनाच्छीर्षभावः । सप्तमीसमाश्च, तत्पुरुषे कृती॑ति वा अलुक् । पक्षेशीर्षभारः॑ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.