Page loading... Please wait.
4|4|144 - भावे च
॥ तस्मै पाणिनये नमः ॥
4|4|144
SK 3490
भावे च   🔊
सूत्रच्छेदः
भावे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , तातिल्  4|4|142 (प्रथमैकवचनम्) , शिव-शम्-अरिष्टस्य  4|4|143 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"भावे" (इति) शिव-शम्-अरिष्टस्य छन्दसि संज्ञायाम् तातिल्
सूत्रार्थः
"भावः" अस्मिन् अर्थे षष्ठीसमर्थात् शिव-शब्दात्, शम्-शब्दात् तथा अरिष्ट-शब्दात् वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।
वेदेषु संज्ञायाः विषये "भावः" अस्मिन् अर्थे षष्ठीसमर्थात् "शिव"शब्दात्, "शम्"शब्दात् तथा "अरिष्ट"शब्दात् तातिल्-प्रत्ययः कृतः दृश्यते ।

शिवस्य भावः = शिव + तातिल् → शिवताति ।
शमः भावः = शम् + तातिल् → शन्ताति ।
अरिष्टस्य भावः = अरिष्ट + तातिल् → अरिष्टताति ।

वेदेषु प्रयोगः - (सामवेद-पूर्वार्चिकम् 2.1.1.6) - सा शन्ताता मयस्करदप स्रिधः ।
अत्र "शन्ताति" शब्दस्य सप्तम्येकवचने "ङि" प्रत्ययस्य सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः 7|1|39 इति डा-आदेशं कृत्वा अङ्गस्य टेः [6।4।143]] इति टिलोपे कृते "शन्ताता" इति रूपम् सिद्ध्यति । "शमः यः भावः, तस्मिन्" इत्यर्थः ।

ज्ञातव्यम् -
1. सूत्रे अनुवर्तमानः "शिव-शम्-अरिष्टस्य" इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति ।
2. "तातिल्" इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा "ताति" इत्यवशिष्यते ।

स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु तृतीयः महोत्सर्गः (यदधिकारः) - यस्य प्रारम्भः प्राग्घिताद्यत् 4|4|75 इत्यत्र भवति - सः अत्र समाप्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भावे चार्थे छन्दसि विषये शिवादिभ्यः तातिल् प्रत्ययो भवति। शिवस्य भावः शिवतातिः। शंतातिः। श्रिष्टतातिः। यतः पूर्णो ऽवधिः। अतः परमन्यः प्रत्ययो ऽधिक्रियते। इति श्रिजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः। प्रथमो भागः समाप्तःपञ्चमो ऽध्यायः प्रथमः पादः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.