Page loading... Please wait.
4|4|141 - नक्षत्राद्घः
॥ तस्मै पाणिनये नमः ॥
4|4|141
SK 3487
नक्षत्राद्घः   🔊
सूत्रच्छेदः
नक्षत्रात् (पञ्चम्येकवचनम्) , घः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
नक्षत्रात् छन्दसि संज्ञायाम् घः
सूत्रार्थः
"नक्षत्र"शब्दात् वेदेषु संज्ञायाः विषये "घ" प्रत्ययः स्वार्थे भवति ।
नक्षत्रशब्दात् स्वार्थे (स्वस्यैव अर्थे) वेदेषु संज्ञायाः विषये "घ"प्रत्ययः कृतः दृश्यते ।

नक्षत्रम् एव इदम्
= नक्षत्र + घ
→ नक्षत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति इय्-आदेशः]
→ नक्षत्र् + इय [यस्येति च 6|4|148 इति अकारलोपः]
→ नक्षत्रिय

वेदेषु प्रयोगः - (शुक्लयजुर्वेदः, वाजसनेयिसंहिता 22.28) - "नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा अहोरात्रेभ्यः स्वाहा" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नक्षत्रशब्दाद् घः प्रत्ययो भवति स्वार्थे। समूहे इति न अनुवर्तते। नक्षत्रियेभ्यः स्वाहा।
Text Unavailable. Please use feedback link below to provide the text if you have.
समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ॥
सिद्धान्तकौमुदी
स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.