Page loading... Please wait.
4|4|14 - आयुधाच्छ च
॥ तस्मै पाणिनये नमः ॥
4|4|14
SK 1564
आयुधाच्छ च   🔊
सूत्रच्छेदः
आयुधात् (पञ्चम्येकवचनम्) , छ लुप्तप्रथमान्तनिर्देशः च (अव्ययम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , जीवति  4|4|12 (क्रियापदम्) , ठन्  4|4|13 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन जीवति" (इति) आयुधात् छः ठन् च
सूत्रार्थः
"जीवति" अस्मिन् अर्थे तृतीयासमर्थात् "आयुध"शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।
आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा -

1. आयुधेन जीवति
= आयुध + ठन्
→ आयुध + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ आयुध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ आयुधिक

2. आयुधेन जीवति
= आयुध + छ
→ आयुध + ईय [आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इत्यनेन छकारस्य ईय्-आदेशः]
→ आयुध् + ईय [यस्येति च 6|4|148 इति अकारलोपः]
→ आयुधीय
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आयुधशब्दात् छ प्रत्ययो भवति, चकाराट् ठंश्च, जीवति इत्येतस्मिन् विषये। आयुधेन जीर्वात आयुधीयः, आयुधिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
आयुध्यतेऽनेनेति आयुधम्, ठ्घञर्थे कविधानम्ऽ इति कप्रत्ययः ॥
सिद्धान्तकौमुदी
चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥
आयुधाच्छ च - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः ।
आयुधाच्छ च - आयुधाच्छ छ । आयुध्यन्ते अनेनेति आयुधं ।घञर्थे कविधान॑मिति कः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.