Page loading... Please wait.
4|4|138 - मये च
॥ तस्मै पाणिनये नमः ॥
4|4|138
SK 3484
मये च   🔊
सूत्रच्छेदः
मये (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , यः  4|4|137 (प्रथमैकवचनम्) , सोमम्  4|4|137 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
मये (इति) सोमम् छन्दसि संज्ञायाम् यः
सूत्रार्थः
"मयट्" प्रत्ययस्य अर्थे सोमशब्दात् वेदेषु संज्ञायाः विषये "य"प्रत्ययः कृतः दृश्यते ।
"मयट्" इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -
1. मयट् च 4|3|82 इत्यनेन ततः आगतः 4|3|74 अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतम् अस्ति ।
2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 4|3|143 इत्यनेन तस्य विकारः 4|3|134 तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः 4|3|135 इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतम् अस्ति ।
3. तत्प्रकृतवचने मयट् 5|4|21 इत्यनेन "प्रकृतम् (= प्राचुर्यम्)" अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।

एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु "सोम"शब्दात् "य"प्रत्ययः कृतः दृश्यते ।
सोमात् आगतः / सोमस्य विकारः / सोमस्य अवयवः / सोमम् प्रकृतम्
= सोम + य
→ सोम्य [यस्येति च 6|4|148 इति अकारलोपः]

वेदेषु प्रयोगः - (ऋग्वेदः 9.67.8, विकारः अस्मिन् अर्थे) - क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे मयट्-प्रत्ययस्य "आगतः", "विकारः", "अवयवः" तथा "प्रकृतम्" एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - "आगतः" इत्यत्र पञ्चमीसामर्थ्यम् अपेक्षते, "विकारः" तथा "अवयवः" इत्यत्र षष्ठीसामर्थ्यम् अपेक्षते, तथा च "प्रकृतम्" इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।
2. वस्तुतः अत्र "यत्" इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे "य" प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेन समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । "यत्"प्रत्ययान्तः "सोम्य"शब्दः यतोऽनावः 6|1|213 इत्यनेन आद्युदात्तः जायते, परन्तु "य"प्रत्ययान्तः "सोम्य"शब्दः आद्युदात्तश्च 3|1|3 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च 3|1|3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयम् अकारः "सभ्य" इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र "सोम्य"शब्दः अन्तोदात्तत्वं प्राप्नोति) ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सोमग्रहणं यश्च अनुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दान् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुम् अनुष्येभ्यो ऽन्यत्रस्यां रूप्यः 4|3|81 मयट् च 4|3|82, मयड्वा एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः 4|3|143, तत्प्रकृतवचने मयट् 5|4|21 इति। तत्र यथायोगं समर्थविभक्तिः। पिबाति सोम्यं मधु। सोमम् अयम् इत्यर्थः।
`{नास्तीयं पंक्तिः-- काशिका, पदमञ्जरी च}रूप्यमयटोऽपवादो योगः` इति। `मय इति मयडर्थो लक्ष्यते` इति। शब्दे कार्यासम्भवादिति भावः। `तत्र यथायोगं समर्थविभक्तिःर` इति। तत्रागतार्थ पञ्चमी, विकारावयवयोः षष्ठी। प्रकृतवचने प्रथमेति यथायोगार्थः॥
मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ॥
सिद्धान्तकौमुदी
सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.