Page loading... Please wait.
4|4|137 - सोममर्हति यः
॥ तस्मै पाणिनये नमः ॥
4|4|137
SK 3483
सोममर्हति यः   🔊
सूत्रच्छेदः
सोमम् (द्वितीयैकवचनम्) , अर्हति क्रियापदम् यः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"सोमम् अर्हति" (इति) छन्दसि संज्ञायाम् यः
सूत्रार्थः
द्वितीयासमर्थात् "सोम"शब्दात् "अर्हति" अस्मिन् अर्थे वेेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते ।
यः "सोमम् अर्हति", तस्य निर्देशार्थं द्वितीयासमर्थात् "सोम"शब्दात् वेदेषु संज्ञायाः विषये य-प्रत्ययः कृतः दृश्यते । सोमम् अर्हति सः सोम्यः ।

वेदेषु प्रयोगः - (ऋग्वेदः 1.14.10) - विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।

ज्ञातव्यम् -
1. "सोमम्" इति सूत्रे प्रयुक्तः यः प्रथमः शब्दः, तेनैव द्वितीयासामर्थ्यं निर्दिश्यते ।
2. वस्तुतः अत्र "यत्" इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे "य" प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेन समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । "यत्"प्रत्ययान्तः "सोम्य"शब्दः यतोऽनावः 6|1|213 इत्यनेन आद्युदात्तः जायते, परन्तु "य"प्रत्ययान्तः "सोम्य"शब्दः आद्युदात्तश्च 3|1|3 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च 3|1|3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयम् अकारः "सोम्य" इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र "सोम्य"शब्दः अन्तोदात्तत्वं प्राप्नोति) ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्देशादेव समर्थविभक्तिः। सोमशब्दात् द्वितीयासमर्थातर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। सोमम् अर्हन्ति सोम्या ब्राह्मणाः। यज्ञार्हाः इत्यर्थः। यति प्रकृते यग्रहणम्। स्वरे विशेषः।
`तदर्हति` 5|1|62 इत्यर्हार्थे ठकि प्राप्ते यो विधीयते। `स्वरे विशेषः` इति। यत्याद्युदात्तत्वं स्यात्। यप्रत्यये तु सत्यन्तोदात्तत्वं भवति॥
ठ्च्छन्दसिऽ इत्यधिकाराद्भाषायां सोम्यशब्दस्य साधुत्वं चिन्त्यम्---ठायुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादनेऽ इति । केचित्सौम्येति वृद्धिं पठन्ति । सौम्यशब्दो दर्शनीयवचनः सुखादिवत् ॥
सिद्धान्तकौमुदी
सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.