Page loading... Please wait.
4|4|135 - सहस्रेण संमितौ घः
॥ तस्मै पाणिनये नमः ॥
4|4|135
SK 3481
सहस्रेण संमितौ घः   🔊
सूत्रच्छेदः
सहस्रेण (तृतीयैकवचनम्) , संमितौ (सप्तम्येकवचनम्) , घः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"सहस्रेण सम्मितौ" (इति) छन्दसि संज्ञायां घः
सूत्रार्थः
तृतीयासमर्थात् "सहस्र"शब्दात् "सम्मिति" (समानता, सादृश्यता) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते ।
तृतीयासमर्थात् "सहस्र"शब्दात् "अनेन सम्मितम् / तुल्यम् / समानम्" अस्मिन् अर्थे घ-प्रत्ययः भवति ।
सहस्रेण सम्मितः
= सहस्र + घ
→ सहस्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति इय्-आदेशः]
→ सहस्र् + इय
→ सहस्रिय ।

यथा - सहस्रेण तुल्यः सहस्रियः अग्निः ।

वेदेषु प्रयोगः - तैत्तिरीयसंहिता 2.4.5.1 - "सविता यः सहस्रियः" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्देशादेव समर्थविभक्तिअः। सहस्रशब्दात् तृतीयासमर्थात् सम्मित इत्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितः तुल्यः, सदृशः। अयम ग्निः सहस्रियः। सहस्रतुल्यः इत्यर्थः। केचित् तु समितौ इति पठन्ति। तत्र अपि समित्या सम्मितः एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्।
Text Unavailable. Please use feedback link below to provide the text if you have.
निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह---तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥
सिद्धान्तकौमुदी
सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.