Page loading... Please wait.
4|4|133 - पूर्वैः कृतमिनयौ च
॥ तस्मै पाणिनये नमः ॥
4|4|133
SK 3479
पूर्वैः कृतमिनयौ च   🔊
सूत्रच्छेदः
पूर्वैः (तृतीयाबहुवचनम्) , कृतम् (प्रथमैकवचनम्) , इन-यौ (द्वितीयैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , ख  4|4|132 (लुप्तप्रथमान्तनिर्देशः)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
पूर्वैः "कृतम्" (इति) छन्दसि संज्ञायाम् इन-यौ खः च
सूत्रार्थः
तृतीयासमर्थात् "पूर्व"शब्दात् "कृतम्" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये "इन", "य" तथा "ख" प्रत्ययाः कृताः दृश्यन्ते ।
"पूर्वैः कृतम्" अस्मिन् अर्थे तृतीयासमर्थात् "पूर्व"शब्दात् वेदेषु संज्ञायाः विषये "इन", "य "तथा "ख" - एते प्रत्ययाः कृताः दृश्यन्ते ।

1. पूर्वैः कृतम् = पूर्व + इन → पूर्विण ।
2. पूर्वैः कृतम् = पूर्व + य → पूर्व्य ।
3. पूर्वैः कृतम् =
पूर्व + ख
→ पूर्व + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ईन्-आदेशः]
→ पूर्वीण ।

वेदेषु उदाहरणम् - (आश्वलायन-श्रौत्रसूत्रम् 2.7.9) अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः ।
(ज्ञातव्यम् - अत्र "पूर्विण"शब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये कृते अतो भिस ऐस् 7|1|9 इत्यनेन ऐस्-आदेशे प्राप्ते बहुलं छन्दसि 7|1|10 इत्यनेन अयम् आदेशः न कृतः अपि दृश्यते ।)

ज्ञातव्यम् -
1. अस्मिन् सूत्रे प्रथमः विद्यमानः शब्दः "पूर्वैः" इत्यनेन तृतीयासामर्थ्यम् दर्श्यते, अतः सूत्रार्थे "तृतीयासमर्थात्" इति निर्देशः कृतः अस्ति ।
2. अस्मिन् सूत्रे "पूर्वैः" इति बहुवचनान्तप्रयोगः कृतः अस्ति । अस्मिन् विषये काशिकाकारः वदति - " पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते" । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तत्रैव कृतः दृश्यते यत्र "पूर्व" शब्दस्य अर्थः "पूर्वपुरुषः" इति वर्तते । यथा, उपरिनिर्दिष्टे उदाहरणे "पूर्विण" इत्युक्ते "पूर्वपुरूषैः कृतम् तत्" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मत्वर्थे इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतम् इत्येतस्मिन्नर्थे इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरेभिः प्रथिभिः पूर्विणेभिः। पूर्व्यैः। पूर्वीणैः। पूर्वैः इति बहुवचनान् तेन पूर्वपुरुषाः उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा।
`पूर्वः कृत मिनयौ च` इति। ख एव यथा स्यात्, यन्मा भूत्। `पूर्वैरिति बहुवचनान्तेन ` इत्यादि। `पथिभिः पूर्वैःर` इत्येवमादिभिर्वेदवाक्यैः पूर्वपुरुषकृतत्वेनयदा प्रशंसां प्रतिपादयितुं निष्ठा साध्वेव शक्यते विज्ञातुम्, तदा पूर्वपुरुषाभिधायिनः पूर्वशब्दात् प्रत्यय उपपद्यते। तस्मात् पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा अभिधीयन्ते। छन्दसामर्थपरत्वाद्बहुवचनस्य।तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह
बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते---पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥
सिद्धान्तकौमुदी
गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.