Page loading... Please wait.
4|4|132 - ख च
॥ तस्मै पाणिनये नमः ॥
4|4|132
SK 3478
ख च   🔊
सूत्रच्छेदः
ख लुप्तप्रथमान्तनिर्देशः च (अव्ययम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , मत्वर्थे  4|4|128 (सप्तम्येकवचनम्) , यल्  4|4|131 (प्रथमैकवचनम्) , भगात्  4|4|131 (पञ्चम्येकवचनम्) , वेशो-यश-आदेः  4|4|131 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
वेशो-यश-आदेः भगात् मत्वर्थे छन्दसि संज्ञायाम् खः
सूत्रार्थः
यस्य आदौ "वेशस् "/ "यशस्" अस्ति तथा च यस्य अन्ते "भग" अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये ख-प्रत्ययः भवति ।
आदौ पदपरिचयः -
1. "मतुप्" इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यनेन "तत् अस्य अस्मिन् वा अस्ति" अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयम् अर्थः "मत्वर्थः" नाम्ना अपि ज्ञायते ।
2. "वेशस्" इत्युक्ते बलम् । "यशस्" इत्युक्ते पराक्रमः । "भग" इत्यस्य "श्रीकाम", "प्रयत्न", "माहात्म्य", "वीर्य", "यशः" एते अर्थाः सन्ति ।

यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते "भग" इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् वेशोयशआदेर्भगाद्यल् 4|4|131 इत्यनेन यल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण "ख" प्रत्ययः अपि कृतः दृश्यते । यथा -

1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + ख → वेशोभगीन ।
2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + ख → यशोभगीन ।

ज्ञातव्यम् - यदि वेशोयशआदेर्भगाद्यल् 4|4|131 इत्यत्रेव ख-प्रत्ययस्य विधानम् क्रियेत तर्हि "यथासङ्ख्यत्वात्" "वेशादि"शब्दात् यल्-प्रत्ययविधानम् तथा च "यशादि"शब्दात् ख-प्रत्ययविधानम् भवेत् । परन्तु अत्र उभाभ्यामपि शब्दाभ्याम् आचार्यः द्वावपि प्रत्ययौ पाठयितुम् इच्छति । अतएव ख-प्रत्ययविधानार्थम् "ख च" इति भिन्नसूत्रस्य निर्माणम् कृतम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वेशोयशाऽदेर् भगान्तात् प्रातिपदिकात् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश्च। चकारात् यत्। वेशोभगीनः, वेशोभग्यः। यशोभगीनः, यशोभग्यः।
`योगविभागः` इत्यादि। यदि पूर्वसूत्र एव खग्रहणं क्रियते; द्वे प्रकृती प्रत्ययावपि द्वावेवेति सामथ्र्याद्यथासंख्यं प्रसज्येत। तस्मात् तन्निरासार्थो योगविभागः।ननु `यथासंख्यमनुदेशः समानाम्` 1|3|10 इत्यत्र इह कस्मान्न भवति---`वेशोयशञादेर्भगाद्यल् ख च` इति दर्शयितवा स्वरितेन लिङ्गेन यथासंख्यमित्युक्तम्? तदेकयोगतामभ्युपेत्य। भवतु नामैकयोगः, तथापि यथासंख्यं न भवतीति दर्शनार्थम्, तत कुतो यथासंख्य निरासार्थो योगविभाग? अत आह--- `उत्तरार्थश्च` इति॥
योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च---ठ्यथासंख्यामनुदेशः समानाम्ऽ प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥
सिद्धान्तकौमुदी
योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.