Page loading... Please wait.
4|4|131 - वेशोयशआदेर्भगाद्यल्
॥ तस्मै पाणिनये नमः ॥
4|4|131
SK 3477
वेशोयशआदेर्भगाद्यल्   🔊
सूत्रच्छेदः
वेशस्-यशस्-आदेः (पञ्चम्येकवचनम्) , भगात् (पञ्चम्येकवचनम्) , यल् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , मत्वर्थे  4|4|128 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
वेशो-यश-आदेः भगात् मत्वर्थे छन्दसि संज्ञायाम् यल्
सूत्रार्थः
यस्य आदौ "वेशस् "/ "यशस्" अस्ति तथा च यस्य अन्ते "भग" अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये यल्-प्रत्ययः भवति ।
आदौ पदपरिचयः -
1. "मतुप्" इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यनेन "तत् अस्य अस्मिन् वा अस्ति" अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयम् अर्थः "मत्वर्थः" नाम्ना अपि ज्ञायते ।
2. "वेशस्" इत्युक्ते बलम् । "यशस्" इत्युक्ते पराक्रमः । "भग" इत्यस्य "श्रीकाम", "प्रयत्न", "माहात्म्य", "वीर्य", "यशः" एते अर्थाः सन्ति ।

यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते "भग" इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् "यल्" प्रत्ययः कृतः दृश्यते । यथा -

1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + यल् → वेशोभग्य ।
2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + यल् → यशोभग्य ।

ज्ञातव्यम् - "यल्" प्रत्ययस्य लकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् "स्वरनिर्देशः" इति । लिति 6|1|193 इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वः स्वरः उदात्तत्वं प्राप्नोति । यथा, "वेशोभग्य" तथा "यशोभग्य" उभयत्र भकारोत्तरः अकारः उदात्तत्वं प्राप्नोति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मत्वर्थे इत्येव वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद् वेशोयशाऽदेर् भगान्तात् प्रातिपदिकात् मत्वर्थे यल् प्रत्ययो भवति। लकारः स्वरार्थः वेशोभगो विद्यते यस्य स वेशोभग्यः। यशोभग्यः। वेशः इति वलम् उच्यते। श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः। वेशश्च असौ भगश्च श्रीप्रभृतिर् वेशोभगः, सो ऽस्य अस्ति इति वेशोभग्यः।
लित्करणं स्वरार्थम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.