Page loading... Please wait.
4|4|130 - ओजसोऽहनि यत्खौ
॥ तस्मै पाणिनये नमः ॥
4|4|130
SK 3476
ओजसोऽहनि यत्खौ   🔊
सूत्रच्छेदः
ओजसः (पञ्चम्येकवचनम्) , अहनि (सप्तम्येकवचनम्) , यत्-खौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , मत्वर्थे  4|4|128 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
ओजसः अहनि मत्वर्थे छन्दसि संज्ञायाम् यत्-खौ
सूत्रार्थः
प्रथमासमर्थात् ओजस्-शब्दात् मत्वर्थे अहनि अभिधेये वेदेषु संज्ञायाः विषये यत्-प्रत्ययः तथा ख-प्रत्ययः कृतः दृश्यते ।
"मतुप्" इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यनेन "तत् अस्य अस्मिन् वा अस्ति" अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयम् अर्थः "मत्वर्थः" नाम्ना अपि ज्ञायते । अस्मिन् अर्थे ओजस्-शब्दात् अहन् (= दिवसः) अस्य निर्देशार्थम् संज्ञायाः विषये "यत्" तथा "ख" प्रत्ययौ भवतः ।

1. ओजः अस्मिन् अहनि वर्तते सः ओजस्यम् अहः । ओजस् + यत् → ओजस्य ।

2. ओजः अस्मिन् अहनि वर्तते सः ओजसीनम् अहः । प्रक्रिया इयम् -
ओजस् + ख
→ ओजस् +ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति खकारस्य ईन्-आदेशः]
→ ओजसीन

उदाहरणम् - (तैत्तिरीयसंहिता 4.4.12.1) - "उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना" ।

ज्ञातव्यम् - अस्मिन् सूत्रे आचार्यः "यत्" प्रत्यस्य स्पष्टरूपेण निर्देशं करोति । अत्र अयं प्रश्नः उपतिष्ठते यत् "ओजसोऽहनि ख च" इति उच्यते चेदपि औत्सर्गिकरूपेण यत्-प्रत्ययः भवेदेव किल? अस्य प्रश्नस्य समाधानम् न्यासकारेण उच्यते - "नैवं शक्यम्; चकारेण हि सन्देहः स्यात् -किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते, अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कर्तव्यम्" । इत्युक्ते, यदि केवलं "च" इति उच्येत, तर्हि पूर्वसूत्रात् "ञ" इति अनुवर्तनीयः उत "यत्" इति स्वीकर्तव्यः इति सन्देहः जायेत । अतएव अत्र आचार्यः स्पष्टरूपेण "यत्" इति निर्देशयति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मत्वर्थे इत्येव। ओजःशदान् मत्वयर्थे यत्खौ प्रत्ययौ भवतो ऽहन्यभिधेये। ओजस्यमहः। ओजसीनमहः।
असन्तत्वात् `अस्मायामेधारुआजो विनिः` 5|2|120 इति विनिप्रत्यये प्राप्ते मतुपोऽपवादैः सह समावेशात् मतुपि यत्खौ विधीयेते। अथ यद्ग्रहणं किमर्थम्, ननु `ओजसोऽहनि ख च` इत्येवोच्येत, चकारेण यथाविहिते प्रत्यये विज्ञायमाने यदिति च भविष्यति? नैवं शक्यम्; चकारेण हि सन्देहः स्यात्-- किमनेनानन्तरसूत्रविहितो ञोऽनुकृष्यते? अथ प्रकृतो यदिति? तस्मादसन्देहार्थं यद्ग्रहणं कत्र्तव्यम्॥
यद्ग्रहणमनर्थकम्, ठ्खश्चऽ इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्; ठ्खश्चऽ इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ॥
सिद्धान्तकौमुदी
ओजस्यमहः । ओजसीनं वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.