Page loading... Please wait.
4|4|129 - मधोर्ञ च
॥ तस्मै पाणिनये नमः ॥
4|4|129
SK 3475
मधोर्ञ च   🔊
सूत्रच्छेदः
मधोः (पञ्चम्येकवचनम्) , ञ लुप्तप्रथमान्तनिर्देशः च (अव्ययम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , मत्वर्थे  4|4|128 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
मत्वर्थे मधोः छन्दसि संज्ञायाम् ञः यत् च
सूत्रार्थः
मत्वर्थे मधु-शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते ।
"मतुप्" इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यनेन "तत् अस्य अस्मिन् वा अस्ति" अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयम् अर्थः "मत्वर्थः" नाम्ना अपि ज्ञायते । अस्मिन् अर्थे "मधु"शब्दात् वेदेषु संज्ञायाः विषये ञ-प्रत्ययः यत्-प्रत्ययः च कृतौ दृश्येते ।

1. मधु अस्ति अस्मिन् सः
= मधु + ञ
→ माधु + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ माधो + अ [ओर्गुणः 6|4|146 इति गुणः]
→ माधव् + अ [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ माधव
स्त्रीत्वे विवक्षिते - अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्यये कृते - माधवा तनूः ।

2. मधु अस्ति अस्मिन् सः
= मधु + यत्
→ मधो + य [ओर्गुणः 6|4|146 इति गुणः]
→ मधव् + य [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ मधव्य
स्त्रीत्वे विवक्षिते - अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्यये कृते - मधव्या तनूः ।

यथा - (तैत्तिरीयसंहिता 1.4.14.1) "मधुश्च माधवश्च शुक्रश्च शुचिश्च..." । अत्र विद्यमानस्य माधव-शब्दस्य व्युत्पत्तिः अनेन सूत्रेण दातुं शक्यते ।

ज्ञातव्यम् -
1. अस्य सूत्रस्य विषये काशिकाकारः वदति - "उपसङ्ख्यानात् लुक् च" । इत्युक्ते, मधु-शब्दस्य विषये मत्वर्थे प्रत्ययस्य लुक् अपि कृतः दृश्यते । एतत् क्रियते चेत् - "मधु अस्ति अस्मिन् सः मधुः" इति सिद्ध्यति
2. मत्वर्थे मासतन्वोः 4|4|128 इत्यस्मात् अस्मिन् सूत्रे "मत्वर्थे" इत्येव अनुवर्तते, "मासतन्वोः" इति न । अतः अस्य सूत्रस्य प्रसक्तिः अन्यत्र (मास-विषयकः तनू-विषयकः अर्थः न विद्यते चेदपि) भवितुम् अर्हति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मधुशब्दान् मत्वर्थे ञः प्रत्ययो भवति, चकाराद् यत् च। उअप्सङ्ख्यानाल् लुक् च। माधवः, मधव्यः, मधुः। तन्वां खल्वपि माधवा, मधव्या, मधुः तनूः।
Text Unavailable. Please use feedback link below to provide the text if you have.
अत्रापि भाषायां मधुयोगान्मासो मधुः, तस्य प्रज्ञादिषु पाठादाद्यौदातत्वम् ॥
सिद्धान्तकौमुदी
माधवः । मधव्यः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.