Page loading... Please wait.
4|4|126 - अश्विमानण्
॥ तस्मै पाणिनये नमः ॥
4|4|126
SK 3472
अश्विमानण्   🔊
सूत्रच्छेदः
अश्विमान् (प्रथमैकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , च  4|4|125 (अव्ययम्) , मतोः  4|4|125 (षष्ठ्येकवचनम्) , लुक्  4|4|125 (प्रथमैकवचनम्) , इष्टकासु  4|4|125 (सप्तमीबहुवचनम्) , उपधानः  4|4|125 (प्रथमैकवचनम्) , मन्त्रः  4|4|125 (प्रथमैकवचनम्) , इति  4|4|125 (अव्ययम्) , आसाम्  4|4|125 (षष्ठीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"उपधानः मन्त्रः आसाम्" (इति) "अश्विमान्" इति इष्टकासु अण् , मतोः च लुक्
सूत्रार्थः
"अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम्" अस्मिन् अर्थे अश्विमत्-शब्दात् प्रथमासमर्थात् वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।
"तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्" अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4|4|125 अनेन सूत्रेण यत्-प्रत्यये प्राप्ते "अश्विमान्" शब्दस्य विषये तद् बाधित्वा अण्-प्रत्ययः विधीयते ।

"अश्विमान्" अयम् शब्दः "अश्विन्" शब्दात् मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । "अश्विन्" शब्दः विद्यते यस्मिन् उपधानमन्त्रे सः अश्विमान् उपधानमन्त्रः । एतादृशः अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः च आश्विन्यः इष्टकाः । प्रक्रिया इयम् -

अश्विमान् उपधानमन्त्रः आसाम् इष्टकानाम्
= अश्विमान् + अण्
→ अश्विन् + अण् [मतुप्-प्रत्ययस्य लुक्]
→ अाश्विन् + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ आश्विन [ नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते इनण्यनपत्ये 6|4|164 इति प्रकृतिभावः]

स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इति ङीप्-प्रत्ययं कृत्वा "अश्विनी" इति सिद्ध्यति । अश्विमान् उपधानमन्त्रः अस्याः इष्टकायाः सा अश्विनी इष्टका ।

वेदेषु प्रयोगः - शतपथब्राह्मणम् 8.2.1.11 - "यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम्" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अश्विशब्दो यस्मिन् मन्त्रे ऽस्ति सो ऽश्विमान्। अश्विमच्छब्दादण् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। अश्विमानुपधानो मन्त्रः आसामि ष्टकानाम् इति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये 6|4|164 इति प्रकृतिभावः। आश्विनीरुपदधाति।
`आइआनीः` इति। `टिड्ढाणञ्` 4|1|15 इति ङीप्॥
सोऽश्विमानिति । यद्यपि बहवोऽश्विमन्तो मन्त्राः ठ्ध्रुवक्षितिःऽ इत्यादिकाः, तथापि सामान्यापेक्षमेकवचनम् ॥
सिद्धान्तकौमुदी
आश्विनीरुप दधाति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.