Page loading... Please wait.
4|4|124 - मायायामण्
॥ तस्मै पाणिनये नमः ॥
4|4|124
SK 3470
मायायामण्   🔊
सूत्रच्छेदः
मायायाम् (सप्तम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , स्वम्  4|4|123 (प्रथमैकवचनम्) , असुरस्य  4|4|123 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
असुरस्य "स्वम्" (इति) मायायाम् छन्दसि संज्ञायाम् अण्
सूत्रार्थः
षष्ठीसमर्थात् "असुर"शब्दात् "आत्मीया माया" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते ।
"असुरस्य आत्मीया माया" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये षष्ठीसमर्थात् असुर-शब्दात् अण्-प्रत्ययः कृतः दृश्यते ।

असुरस्य आत्मीया माया = असुर + अण् + ङीप् → आसुरी माया ।

यथा - (अथर्ववेदः 1.24) - "तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्" ।

ज्ञातव्यम् - "असुरस्य आत्मीया माया" अस्मिन् अर्थे असूरस्य स्वम् 4|4|123 इत्यनेन विहितं यत्-प्रत्ययं बाधितुम् तथा च स्पष्टरूपेण अण्-प्रत्ययविधानं कर्तुम् अस्य सूत्रस्य निर्माणं कृतम् अस्ति । परन्तु अस्मिन् सूत्रे "अण्" इति वस्तुतः न आवश्यकम् । केवलम् "मायायां न" इति उच्यते चेदपि "असुरस्य आत्मीया माया" इत्यत्र तस्येदम् 4|3|120 इत्यनेन अण्-प्रत्ययः एव विधीयेत । अतः अस्मिन् सूत्रे निर्दिष्टः अण्-प्रत्ययः केवलं स्पष्टतायै कृतः अस्ति - इति पण्डिताः मन्यन्ते । न्यासकारः अस्मिन् विषये वदति - "मायायां नेति वक्तव्ये अण्-ग्रहणं विस्पष्टार्थम्" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
असुरशब्दात् षष्ठीसमर्थात् मायायां स्वविशेषे अण् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। आसुरी माया स्वधया कृतासि।
मायायां नेति वक्तव्येऽण्ग्रहणं विस्पष्टार्थम्॥
मीयतेऽनयेति माया उ असदर्थप्रकाशनशक्तिः । माङ् औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ॥
सिद्धान्तकौमुदी
आसुरी माया ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.