Page loading... Please wait.
4|4|123 - असुरस्य स्वम्
॥ तस्मै पाणिनये नमः ॥
4|4|123
SK 3469
असुरस्य स्वम्   🔊
सूत्रच्छेदः
असुरस्य (षष्ठ्येकवचनम्) , स्वम् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
असुरस्य "स्वम्" (इति) छन्दसि संज्ञायाम् यत्
सूत्रार्थः
षष्ठीसमर्थात् असुर-शब्दात् "स्वम्" (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति ।
षष्ठीसमर्थात् "असुर" शब्दात् "स्वम्" (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

असुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः ।

यथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
असुरशब्दात् षष्ठीसमर्थात् स्वम् इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणो ऽपवादः। असुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तम्।
`षष्ठीसमर्थात्` इति। `असुरस्य` इति निर्देशादेव षष्ठी समर्थविभक्तर्लभ्यते। `स्वम्` इति। आत्मीयमित्यर्थः। `अणोऽपवादः` इति। `तस्येदम्` 4|3|120 इति प्राप्तस्य॥
न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥
सिद्धान्तकौमुदी
असुर्यं देवोभिर्धायि विश्वम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.