Page loading... Please wait.
4|4|120 - दूतस्य भागकर्मणी
॥ तस्मै पाणिनये नमः ॥
4|4|120
SK 3466
दूतस्य भागकर्मणी   🔊
सूत्रच्छेदः
दूतस्य (षष्ठ्येकवचनम्) , भाग-कर्मणी (प्रथमाद्विवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
दूतस्य भागकर्मणी वेदेषु संज्ञायां यत्
सूत्रार्थः
षष्ठीसमर्थात् "दूत"शब्दात् "भाग" अस्मिन् अर्थे तथा च "कर्म" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।
"दूत" अस्मात् षष्ठीसमर्थात् "भागः" (अंशः) अस्मिन् अर्थे, तथा च "कर्म" (क्रिया) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । दूतस्य भागः कर्म वा = दूत + यत् → दूत्य ।

यथा - ऋग्वेदे 1.12.4 - ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥

ज्ञातव्यम् - अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् "तत्र" इति न अनुवर्तते । अतः अत्र "दूतस्य" इति समर्थेषु प्रथमः अस्ति, अतः च अत्र षष्ठीसामर्थ्यम् स्वीक्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्देशादेव समर्थविभक्तिः। दूतशब्दात् षष्ठीसमर्थाद् भागे कर्मणि च अभिधेये यत् प्रत्ययो भवति। भागः अंशः। कर्म क्रिया। यदग्ने यासि दूत्यम्। दूतभागः दूतकर्क्म वा।
भावे `तस्येदम्` 4|3|120 इत्यणि प्राप्ते `गुणवचनब्राआहृणादिभ्यः` 5|1|123 इति ष्यञि यतो विधाम्। येषां `सख्युर्यः` 5|1|125 इत्यत्र `दूतवणिग्भ्याञ्च` (वा।540) इत्युपसंख्यायते, तेषां कर्मणि ये प्राप्ते॥
दूताद्भागे ठ्तस्येदम्ऽ इत्यणि प्राप्ते वचनम्, कर्मणि तु दूतवणिग्भ्यां चेत्यौपसंख्यानिके ये ॥
सिद्धान्तकौमुदी
भार्गोऽशः । दूत्यम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.