Page loading... Please wait.
4|4|115 - तुग्राद्घन्
॥ तस्मै पाणिनये नमः ॥
4|4|115
SK 3461
तुग्राद्घन्   🔊
सूत्रच्छेदः
तुग्रात् (पञ्चम्येकवचनम्) , घन् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , तत्र  4|4|98 (अव्ययम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , भवे  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र भवे" (इति) तुग्रात् छन्दसि संज्ञायाम् घन्
सूत्रार्थः
"भवः" अस्मिन् अर्थे सप्तमीसमर्थात् "तुग्र"शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते ।
"तुग्र"शब्दस्य अनेके अर्थाः विद्यन्ते । "अन्नम्", "आकाशः", "यज्ञः", "वरिष्ठः" - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् "तुग्र"शब्दात् "भवः" अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते ।

तुग्रे भवः
= तुग्र + घन्
→ तुग्र + इय [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7|1|2 इति घकारस्य इय्-आदेशः]
→ तुग्र् + इय [यस्येति च 6|4|148 इति अकारलोपः]
→ तुग्रिय

ज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः स्रोतसो विभाषा ड्यड्यौ 4|4|113 इत्यस्मात् "विभाषा" इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः ।

उदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र "तुग्रियासु" इत्यपि पाठः दृश्यते) ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः।
Text Unavailable. Please use feedback link below to provide the text if you have.
ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इत्यत औणादिको रन् गुडागमः ॥
सिद्धान्तकौमुदी
भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.