Page loading... Please wait.
4|4|113 - स्रोतसो विभाषा ड्यड्ड्यौ
॥ तस्मै पाणिनये नमः ॥
4|4|113
SK 3459
स्रोतसो विभाषा ड्यड्ड्यौ   🔊
सूत्रच्छेदः
स्रोतसः (पञ्चम्येकवचनम्) , विभाषा (प्रथमैकवचनम्) , ड्यत्-ड्यौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , तत्र  4|4|98 (अव्ययम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , भवे  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र भवे" (इति) स्रोतसः छन्दसि संज्ञायाम् ड्यत् ड्यौ यत् विभाषा
सूत्रार्थः
"भवः" अस्मिन् अर्थे सप्तमीसमर्थात् स्रोतस्-शब्दात् वेदेषु संज्ञायाः विषये विकल्पेन ड्यत्, ड्य प्रत्ययौ कृतौ दृश्येते । पक्षे यत्-प्रत्ययः अपि भवति ।
"स्रोतस्" इत्युक्ते प्रवाहः । अस्मात् शब्दात् सप्तमीसमर्थात् "भवः" अस्मिन् अर्थे वेदेषु ड्यत्, ड्य, तथा यत् प्रत्ययाः कृताः दृश्यन्ते । उदाहरणानि एतानि -

1. स्रोतस् + ड्यत्
→ स्रोतस् + य [इत्संज्ञालोपः]
→ स्रोत् + य [टेः 6|4|143 इति डित्-प्रत्यये परे टिलोपः]
→ स्रोत्य

2. स्रोतस् + ड्य
→ स्रोतस् + य [इत्संज्ञालोपः]
→ स्रोत् + य [टेः 6|4|143 इति डित्-प्रत्यये परे टिलोपः]
→ स्रोत्य


ज्ञातव्यम् - "ड्यत्" तथा "ड्य" - द्वयोः अपि प्रयोगेन रूपम् समानमेव जायते, परन्तु तत्र स्वरभेदः दृश्यते । "ड्यत्" प्रत्ययस्य यकारोत्तरः अकारः तित्स्वरितम् 6|1|185 इत्यनेन स्वरितः अस्ति, तथा च "ड्य" प्रत्ययस्य यकारोत्तरः अकारः आद्युदात्तश्च 3|1|3 इत्यनेन उदात्तत्वं प्राप्नोति ।

वेदेषु प्रयोगः - ऋग्वेदे 10.104.8 इत्यत्र - न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ।
अत्र "स्रो॒त्य" इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति, अतः इदम् "ड्य"प्रत्ययस्य उदाहरणम् ।

3. स्रोतस् + यत्
→ स्रोतस् + य [इत्संज्ञालोपः]
→ स्रोतस्य

वेदेषु प्रयोगः - अथर्ववेदे 19.2 इत्यत्र - अपामह दिव्यानामपां स्रोतस्यानाम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्रोतःशब्दाद् विभाषा ड्यत् द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। पक्षे सो ऽपि भवति। स्रोतसि भवः स्रोत्यः। स्रोतस्यः। ड्यड्ड्ययोः स्वरे विशेषः।
डडडयोः स्वरे विशेषः। डति हि सति `तित् स्वरितम्` 6|1|179 इत्यन्तस्वरितः स्यात्, डए तु प्रत्ययस्वरेणान्तोदात्तत्वं भवति॥
ठ्स्रुहीभ्यां तुट् चऽ इत्यसुन् । स्रेतःउनदीप्रवाहः ॥
सिद्धान्तकौमुदी
पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.