Page loading... Please wait.
4|4|110 - भवे छन्दसि
॥ तस्मै पाणिनये नमः ॥
4|4|110
SK 3456
भवे छन्दसि   🔊
सूत्रच्छेदः
भवे (सप्तम्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , तत्र  4|4|98 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र भवे" (इति) छन्दसि संज्ञायाम् यत्
सूत्रार्थः
"भवः" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये सप्तमीसमर्थेभ्यः यत्-प्रत्ययः कृतः दृश्यते ।
भिन्नानां शब्दानां विषये सप्तमीसमर्थात् "भवः" (= तत्र वर्तते) अस्मिन् अर्थे यत्-प्रत्ययः भवति।

तत्र भवः 4|3|53 इति प्राग्दीव्यतीय-अधिकारे पाठितम् किञ्चन सूत्रम् विद्यते । अस्मिन् सूत्रे "भवः" इति अर्थः उक्तः अस्ति । अस्यैव निर्देशः वर्तमानसूत्रे अपि क्रियते । अस्मिन् अर्थे भिन्नेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अधिकारस्य औत्सर्गिकः अण्-प्रत्ययः (उत तस्य अपवादाः) विधीयन्ते । परन्तु वेदेषु अस्मिन्नेव अर्थे केभ्यश्चन शब्देभ्यः "यत्" प्रत्ययः प्रयुक्तः दृश्यते । यथा - "नमो मेघ्याय च विद्युत्याय च" इति रूद्रनमके दृश्यते । अस्य सिद्ध्यर्थम् वर्तमानसूत्रस्य निर्माणं कृतम् अस्ति । प्रक्रिया एतादृशी

मेघे भवः
= मेघ + यत्
→ मेघ् + य [यस्येति च 6|4|148 इति आकारलोपः]
→ मेघ्य

ज्ञातव्यम् -
1. "सर्वे विधयः छन्दसि विकल्प्यन्ते" इति कश्चन सिद्धान्तः अस्ति । "वेदेषु सर्वे विधयः वैकल्पिकरूपेण भवितुम् अर्हन्ति" इति अस्य आशयः । अतः "तत्र भवः" अस्मिन् अर्थे वेदेषु वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तु दृश्यते एव, परन्तु तत्र भवः 4|3|53 इत्यत्र प्राग्दीव्यतीय-अधिकारे पाठितः उचितः प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा, ऋग्वेदे 10.34.1 इत्यत्र "सोमस्येव मौजवतस्य भक्षः" इति दृश्यते । अत्र प्रयुक्तः "मौजवत"शब्दः मुजवत्-शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । मुजवति भवः = मुञ्जवत् + अण् → मौजवत । "मुजवान्" नाम कश्चन पर्वतः, अस्मिन् पर्वति विद्यमानः "मौजवतः" सोमः - इति अत्र प्रयोगः दृश्यते ।

2. अस्मात् सूत्रात् आरभ्य आपादपरिसमाप्तेः "छन्दसि" इति अनुवर्तते । इत्युक्ते, अग्रे प्राग्घितीय-अधिकारे पाठिताः सर्वे अर्थाः प्रत्ययाः च वेदानाम् विषये एव विधानं कुर्वन्ति इति स्मर्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्र इत्येव। स्प्तमीसमर्थात् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने ते ऽपि भवन्ति, सर्वविधीनाम् छन्दसि व्यभिचारात्। नमो मेध्याय च विद्युत्याय च नमः। आपादपरिसमाप्तेः छन्दो ऽधिकारः। भवाधिकारश्च समुद्राभ्राद् धः 4|4|118 इति यावत्।
`अणादीनां घादीनाञ्चापवादः` इति। `तत्र भवः` 4|3|53 इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्, ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह--- `सति दर्शने` इत्यादि। कथं पुनरेवं लभ्यते? इत्याह---`सर्वविधीनाम्` इत्यादि। सर्वविधिव्यभिचारस्तु `बहुलं छन्दसि` 3|2|88 इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥
अणादीनां घादीनां चापवाद इति । ठ्तत्र भवःऽ इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा---मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र ठ्यतोऽनावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥
सिद्धान्तकौमुदी
सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.