Page loading... Please wait.
4|4|106 - ढश्छन्दसि
॥ तस्मै पाणिनये नमः ॥
4|4|106
SK 3455
ढश्छन्दसि   🔊
सूत्रच्छेदः
ढः (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , साधुः  4|4|99 (प्रथमैकवचनम्) , तत्र  4|4|99 (अव्ययम्) , सभायाः  4|4|105 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र साधुः" (इति) सभायाः छन्दसि संज्ञायाम् ढः
सूत्रार्थः
"साधुः" अस्मिन् अर्थे सप्तमीसमर्थात् "सभा"शब्दात् वेदेषु संज्ञायाः विषये "ढ"प्रत्ययः भवति ।
"साधुः" इत्युक्ते कुशलः, प्रवीणः, योग्यः । सप्तमीसमर्थात् "सभा"शब्दात् वेदेषु संज्ञायाः विषये ढ-प्रत्ययः अपि कृतः दृश्यते ।

यथा, शुक्लयजुर्वेदे 22 तमे अध्याये 22 तमः श्लोके उच्यते - "पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् " । अत्र प्रयुक्तः "सभेयः" अयं शब्दः "सभायां साधुः" अस्मिन् अर्थे प्रयुक्तः अस्ति ।

प्रक्रिया इयम् -
सभायां साधुः
= सभा + ढ
→ सभा + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति एय् -आदेशः]
→ सभ् + एय [यस्येति च 6|4|148 इति आकारलोपः]
→ सभेय ।

विशेषः - शुक्लयजुर्वेदस्य 22 तम-अध्यायस्य 22 तमः श्लोकः "वैदिकम् राष्ट्रगीतम्" नाम्ना अपि प्रसिद्धः अस्ति । अयम् सम्पूर्णः श्लोकः अधः दत्तः अस्ति -
आ ब्रह्यन्ब्राह्मणो ब्रह्मवर्चसी जायताम् ।
आ राष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायताम् ।
दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ।
निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ शुक्लयजुर्वेदः 22.22 ॥
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सभाशब्दाड् ढः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये छन्दसि। यस्य अपवादः। सभेयो युवा ऽस्य यजमानस्य वीरो जायताम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सभेयो युवा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.