Page loading... Please wait.
4|4|102 - कथादिभ्यष्ठक्
॥ तस्मै पाणिनये नमः ॥
4|4|102
SK 1654
कथादिभ्यष्ठक्   🔊
सूत्रच्छेदः
कथा-आदिभ्यः (पञ्चमीबहुवचनम्) , ठक् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , साधुः  4|4|99 (प्रथमैकवचनम्) , तत्र  4|4|99 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र साधुः" इति कथादिभ्यः संज्ञायाम् ठक्
सूत्रार्थः
"साधुः" अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।
"साधुः" इत्युक्ते प्रवीणः, कुशलः, योग्यः । "साधुः" अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।

कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद ।

उदाहरणानि -

1. कथायां साधुः
= कथा + ठक्
→ कथा + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ काथ + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ काथ् + इक [यस्येति च 6|4|148 इति अन्तिम-आकारलोपः]
→ काथिक

कथायां साधु काथिकम् चित्रम् ।

2. विकथायां साधुः वैकथिकः ।
3. वितण्डायां साधुः वैतण्डिकः । "वितण्डा" इत्युक्ते "विश्लेषणम् / चोदनम्" (criticism).
4. आयुर्वेदे साधुः आयुर्वेदिकः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कथादिभ्यः शब्देभ्यः ठक् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। कथायां साधुः काथिकः। वैकथिकः। कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कथायां साधुः काथिकः ॥
कथाऽ‌ऽदिभ्यष्ठक् - कथादिभ्यष्ठगित्यादि स्पष्टम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.