Page loading... Please wait.
4|4|100 - भक्ताण्णः
॥ तस्मै पाणिनये नमः ॥
4|4|100
SK 1652
भक्ताण्णः   🔊
सूत्रच्छेदः
भक्तात् (पञ्चम्येकवचनम्) , णः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , साधुः  4|4|99 (प्रथमैकवचनम्) , तत्र  4|4|99 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र साधुः" इति भक्तात् संज्ञायाम् णः
सूत्रार्थः
"साधुः" इत्यस्मिन् अर्थे सप्तमीसमर्थात् "भक्त" (पक्वः ओदनः) शब्दात् संज्ञायाः विषये ण-प्रत्ययः भवति ।
"भक्त" इत्युक्ते पक्वः ओदनः (cooked rice) । "साधुः" इत्युक्ते प्रवीणः, कुशलः, योग्यः । "साधुः" अस्मिन् अर्थे सप्तमीसमर्थात् "भक्त"शब्दात् ण-प्रत्ययः भवति -
भक्ते साधुः
= भक्त + ण
→ भक्त + अ [इत्संज्ञालोपः]
→ भाक्त + अ [तद्धितेष्वचामादेः 7|2|117 आदिवृद्धिः]
→ भाक्त् + अ [यस्येति च 6|4|148 इति अकारलोपः]
→ भाक्त
भक्ते साधुः भाक्ताः तण्डुलाः । ते तण्डुलाः येषु उत्तमाः गुणाः सन्ति, येभ्यः पक्व-ओदनस्य निर्माणम् भवितुम् अर्हति, ते तण्डुलाः "भाक्ताः" नाम्ना ज्ञायन्ते ।

स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः विधीयते । भक्ते साधुः भाक्ता यवागूः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भक्तशब्दात् णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये। यतो ऽपवादः। भक्ते साधुः भक्तः शालिः। भाक्ताः तण्डुलाः।
Text Unavailable. Please use feedback link below to provide the text if you have.
भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥
सिद्धान्तकौमुदी
भक्ते साधवो भाक्ताः शालयः ॥
भक्ताण्णः - भक्ताण्णः । सप्तम्यन्तादस्मात्साधुरित्यर्थ इति शेषः ।
भक्ताण्णः - भक्ते इति ।भस्सां स्त्री भक्तमन्धोऽन्न॑मित्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.