Page loading... Please wait.
4|3|78 - ऋतष्ठञ्
॥ तस्मै पाणिनये नमः ॥
4|3|78
SK 1457
ऋतष्ठञ्   🔊
सूत्रच्छेदः
ऋतः (पञ्चम्येकवचनम्) , ठञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विद्यायोनिसम्बन्धेभ्यः इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्धवाचिभ्यः ठञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। वुञो ऽपवादः। विद्यासम्बन्धवाचिभ्यस् तावत् होतुरागतं हौतृकम्। पौतृकम्। योनिसम्बन्धवाचिभ्यः भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणम् मुखसुखार्थम्। विद्यायोनिभ्याम् अन्यत्र, सावित्रम्।
`तपरकरणं मुखसुखार्थम्` इति। अथ दीर्घनिवृत्त्यर्थं कस्मान्न भवति? असम्भवात्। न हि विद्यायोनिसम्बन्धिषु किञ्चिदृकारान्तं प्रातिपदिकमस्ति यन्निवृत्त्यर्थस्तकारः स्यात्॥
एषूदाहरणेषु ठिसुसुक्तान्तात्कःऽ । एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
वुञोऽपवादः । पौतृकम् । भ्रातृकम् ॥
ऋतश्ठञ् - ञतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । "तत आगत" इत्येव । हौतृकं भ्रातृकमिति । उकः परत्वाट्ठस्य कः ।
ऋतश्ठञ् - ऋतष्ठञ् ।विद्ययोनिसंबन्धेभ्यः॑ इति वर्ततेस तदाह — -वुञोऽपवाद इति ।उष्क॑ञिति वक्तव्ये तपरकरणं ठञ्ग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः ।पौतृकी विद्ये॑त्यत्र ङीबर्थं ठञ्ग्रहणमिति तु तत्त्वम् । न चटिड्ढे॑ति सूत्रे कञ्ग्रहणान्ङीप्सिध्यतीति वाच्यं, यादृशी,तदृशीकत्याद्यसिद्धेः । तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्याऽग्रहणात्, ल्त्यदादिषु दृशःटैति कञो द्व्यनुबन्धकत्वात् । तपरकरणं विहायउष्ठ॑ञित्येव सुवचमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.