Page loading... Please wait.
4|3|76 - शुण्डिकादिभ्योऽण्
॥ तस्मै पाणिनये नमः ॥
4|3|76
SK 1455
शुण्डिकादिभ्योऽण्   🔊
सूत्रच्छेदः
शुण्डिका-आदिभ्यः (पञ्चमीबहुवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शुण्डिक इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। आयस्थानठको ऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः। शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्दिकादिः।
`आयस्थानठकोऽपवादः` इति। बाहुल्यादेवमुक्तम्; यस्मात् कृकणशब्दोऽत्र पठते। तत्र हि `कृकणपर्णाद्भारद्वाजे` 4|2|144 इति प्राप्तस्य च्छस्यापवादः। तीर्थशब्दश्चेह धूमादिषु पठते, ततः `धूमादिभ्यश्च` 4|2|126 इति प्राप्तस्य वुञोऽपवादः। अथाण्ग्रहणं किमर्थम्, न शुण्डिकादिभ्यो यथाविहितमेवोच्येत, न चैवं पठमानेऽपवाद एव स्यादित्याशङ्कनीयम्; अपवादविधाने हि वचनवैयथ्र्यं स्यात्, तस्मादन्तरेणाप्यण्ग्रहणमणेव भविष्यति? इत्यत आह-- `अण्ग्रहणम्` इत्यादि। `उदपान` शब्दोऽत्र पठत आयस्थानवचनम्, उत्सादिष्वसौ पठते; तत्रासत्यग्रहण आयस्थानठकं बाधित्वा `उत्सादिभ्योऽञ्` 4|1|86 इत्यञेव स्यात्। तस्मात् तस्य बाधकस्य बाधनार्थमण्ग्रहणम्। तेनोदपान इत्यत्राण्सिद्धो भवति॥
आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात् ठ्कृकणपर्णाद्भारद्वाजेऽ इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह---अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥
सिद्धान्तकौमुदी
आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥
शुण्डिकादिभ्योऽण् - शुण्डिकादिभ्योऽण् । "तत आगत" इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । "कृकणादागत" इति शेषः ।कृकणपर्णाद्भारद्वाजे॑ इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । औदपान इति । अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात् ।
शुण्डिकादिभ्योऽण् - छादीनां चेति । कार्कण इथ्यत्रकृकणपर्णाद्भारद्वाजे॑इति छः प्राप्तः । तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः । उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.