Page loading... Please wait.
4|3|59 - अव्ययीभावाच्च
॥ तस्मै पाणिनये नमः ॥
4|3|59
SK 1436
अव्ययीभावाच्च   🔊
सूत्रच्छेदः
अव्ययीभावात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अव्ययीभावसंज्ञाकात् प्रातिपदिकाच् च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति, किं तर्हि, परिमुखादेः। परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनम्। तेषां विशेषणम् अव्ययीभावग्रहणम्। परिमुखं भवं पारिमुखम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति, औपकूलम्। परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश।
`किं तर्हि` इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव? इत्यत आह-- `परिमुखादीनाञ्च` इत्यादि। चशब्दो हेतौ। न ह्रन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह-- `तेषाम्` इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, तस्मस्तु सति न भवति-- परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कत्र्तव्यम्-- `अन्तःपूर्वपदाट्ठञ्` 4|3|60 । `ग्रामात्पर्यनुपूर्वात्` 4|3|61 इत्यव्ययीभावाद्यथा स्यात्। `पारिहनव्यम्` इति। `ओर्गुणःर` 6|4|146 , `वान्तो यि प्रत्यये` 6|1|76 इत्यवादेशः। `औपकूलम्` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठत इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः? यावता अपपरिबहिरञ्चवः पञ्चम्या 2|1|11 समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु `अपपरी वर्दने` 1|4|87 इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि? सर्वतोभावः? एवं तर्हि `अव्ययम्` 2|1|6 इति योगविभागव्ययीभावो भविष्यति।अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते `अपपरिबहिरञ्चवः पञ्चम्या` 2|1|11 इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि `अव्ययम्` 2|1|6 इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये `अव्ययम्` 2|1|6 इत्यादिना। `अनुगङ्गम्` इति। `यस्य चायामः` 2|1|15 इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना॥
किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह---परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह---तेषामेवेति । ठ्परिमुखादेःऽ इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ ठ्यस्य चायामःऽ ठ्पश्चादर्थे यदव्ययम्ऽ इति च यथाभिधानं समासः ॥
सिद्धान्तकौमुदी
परिमुखं भवं पारिमुख्यम् ॥ ।परिमुखादिभ्य एवेष्यते (वार्तिकम्) ॥ नेह । औपकूलः ॥
अव्ययीभावाच्च - अव्ययीभावाच्च । "ञ्य" इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामथ्र्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः ।
अव्ययीभावाच्च - अव्य । परिमुखमिति । यदि परिशब्दादिह वर्जनं गम्यते, तदा॒अपपरिबहिरञ्चवः पञ्चम्ये॑त्यब्ययीभावः । यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः ।परिमुखादिभ्यएवेष्यते । परिमुखादिभ्य एवेति । अयं भावः — -दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पटते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते । तस्य गणस् । कार्यान्तराऽभावादिति । नन्वेवंपरिमुखादे॑रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन । उत्तरत्रअव्ययीभावा॑दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत् । अतारिह हरदत्तः — -॒परिमुखादेः॑इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च॒शाखृ व्याप्तौ॑इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् ।अव्ययीभावाच्चे॑ति भवार्थे ञ इति माधवः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अव्ययीभावाच्च (1629) (5475 उपसङ्ख्यानवार्तिकम्।। 1 ।।) - ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानम् - (भाष्यम्) ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानं कर्तव्यम्। पारिमुख्यम्, पार्योष्ठ्यम्, पारिहनव्यम्।। (5476 उत्तरसूत्रातिव्याप्तिनिवारकं वार्तिकम्।। 2 ।।) - अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः - (भाष्यम्) अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधो वक्तव्यः। औपकूलः, औपमूलः, औपशालः।।