Page loading... Please wait.
4|3|45 - आश्वयुज्या वुञ्
॥ तस्मै पाणिनये नमः ॥
4|3|45
SK 1420
आश्वयुज्या वुञ्   🔊
सूत्रच्छेदः
आश्वयुज्याः (पञ्चम्येकवचनम्) , वुञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आश्वयुजीशब्दात् वुञ् प्रत्ययो भवति उप्ते ऽर्थे। ठञो ऽपवादः। आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः। अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी। अश्विनीपर्यायो ऽश्वयुक्शब्दः।
`ठञोऽपवादः` इति। `कालाटठ्ञ्` 4|3|11 प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चाआयुजीशब्दः कालवाची, ततः कुतष्ठञ्? इत्याशङ्क्य कालवाचित्वमाआयुजीशब्दस्य प्रतिपादयितुमाह--- `अइआनीभ्यां युक्ता` इत्यादि॥
वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात् ठ्नमोऽश्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः । ठ्तारा अश्वयुगश्विनीऽ इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥
सिद्धान्तकौमुदी
ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥
आश्वयुज्या वुञ् - आआयुज्या वुञ् । तत्रोप्य इत्येव । सप्तम्यन्तादाआयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः । ठञोऽपवाद इति ।कालाट्ठ॑ञिति विहितस्येत्यर्थः । आआयुजका इति । अआयुग्भ्यां युक्ता पौर्णमासी आआयुजी, तत्रोप्ता इत्यर्थः ।
आश्वयुज्या वुञ् - व्यपेक्षायामिति ।इदं सर्पिष्कुण्डिकाया॑इत्यत्रेत्यर्थः । अत्रसर्पि॑रित्यसमस्तं पदमिति बोध्यम् । समासे तुनित्यं समासे॑ इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम् । नित्यार्थश्चेति । अयं भावः-असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासेइसुसोः॑ इति विकल्पेन प्राप्तौ नित्यार्थ इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.