Page loading... Please wait.
4|3|43 - कालात्‌ साधुपुष्प्यत्पच्यमानेषु
॥ तस्मै पाणिनये नमः ॥
4|3|43
SK 1418
कालात्‌ साधुपुष्प्यत्पच्यमानेषु   🔊
सूत्रच्छेदः
कालात् (पञ्चम्येकवचनम्) , साधु-पुष्प्यत्-पच्यमानेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्र इत्येव कालविशेषवाचिभ्यः सप्तमीसमार्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुः हैमन्तः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। ग्रैष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। ग्रैष्म यवाः।
कालादिति स्वर्यते, प्रकृतीरुत्तरा विशेषयितुम्। न च स्वरूपग्रहणे सत्युत्तराः प्रकृतयः शक्या विशेषयितुम्; स्वरूपस्याधारणत्वात्। तस्मादर्थग्रहणमेवैतत्। तेनकालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- `कालविशेषवाचिब्यः` इत्यादि। `हैमनः` इति। `सर्वत्राण् च तलोपश्च` 4|3|22 । `शैशिरः` इत्यादौ सन्धिवेलादिसूत्रेण 4|3|16 ऋत्वण्॥बाल-मनोरमाकालात्साधुपुष्फ्यत्पच्यमानेषु 1397, 4.3.45 कालात्साधुपुष्प्यत्। तत्रेत्येव साधुः, पुष्प्यत्, पच्यमानमित्यर्थेषु सप्तम्यन्ताद्यथधाविहितं प्रत्ययाः स्युरित्यर्थः। `पुष्प विकसने` इति दैवादिकाल्लटः शतरि `पुष्प्य`दिति भवति। हैमनः प्रावार इति। `सर्वत्राऽण्च तलोपश्चे`त्यणितलोपः। वासन्त्य इति। `टिड्ढे`ति ङीप्। `शारदा` इत्यत्र ऋत्वण्। `तत्र भवः` इति यावत्कालादित्यनुवर्तते। बाल-मनोरमाउप्ते च 1398, 4.3.45 उप्ते च। तत्रेत्येव। कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः। उप्यन्त इति। `डु वप् बीजसन्ताने`। भूतकालस्त्वविवक्षित इति भावः।
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उतरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ॥
सिद्धान्तकौमुदी
हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥
कालात् साधुपुष्प्यत्पच्यमानेषु - उप्ते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति ।डु वप् बीजसन्ताने॑ । भूतकालस्त्वविवक्षित इति भावः ।
कालात् साधुपुष्प्यत्पच्यमानेषु - कालात् ।पुष्य॑दिति दैवादिकः शत्रन्तः । तदाह — पुष्प्यन्तीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.