Page loading... Please wait.
4|3|42 - कोशाड्ढञ्
॥ तस्मै पाणिनये नमः ॥
4|3|42
SK 1417
कोशाड्ढञ्   🔊
सूत्रच्छेदः
कोशात् (पञ्चम्येकवचनम्) , ढञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कोशशब्दात् ठञ् प्रत्ययो भवति तत्र सम्भूते इत्यस्मिन् विषये। अणो ऽपवादः। कोशे सम्भूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खङ्गकोशाच् च।
`कौशेयं वस्त्रम्` इति। ननु च वरुआं कौशेयं न सम्भवति, किन्तु कृमिः, ततश्च कृमावेव स्यात्, न वस्त्रे; अपि च विशेषानभिधानात् खड्गसम्बन्धिनोऽपि कोशात् प्रत्ययः प्रसज्येतेत्याह-- `रूढिरेषा` इत्यादि। रूढिशब्दो हि यथाकथञ्चिदुत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिदवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, न तत्रावश्यमवयवार्थोऽपेक्ष्यः, क्वचिवयवार्थासम्भवात्। तथा हि तैलं पिबतीत्येवं तैलपायिकाशब्दो व्युत्पाद्यते, स च तैलपानक्रियारहित एव क्वचित् प्राणिविशेषे वत्र्तते। सस्माद्यद्यपि न कृमौ। अथ खङ्गकोशादुत्पत्तौ को दोषः, येन ततः प्रत्ययो नेष्यते? खङ्गस्याबिधानं प्राप्नोति। स हि तत्र सम्भवतीति चेत्? इतरस्मादपि तर्हि कोशात् प्रत्ययोत्पत्तौ च कृमेरभिधानं प्राप्नोति, स हि तत्र सम्भवति। अथ तत्रापि रूढिवशाद्वस्त्रस्याभिधानम्, न कृमेः। इतरस्मादपि तर्हि कोशादुत्पत्तौ वरुआस्याभिधानं न खङ्गस्य? एवं मनयते-- यद्यपि सम्भूताधिकारे कोशाड्ढञ् विधीयते, तथापि कौशेयशब्दान्न सम्भवोऽर्थ प्रतीयते, अपि तु विकारोऽर्थः; रूढिवशात्। कौशेयं वरुआमितिकोशविकारो वरुआमित्यर्थः। तथा च वार्त्तिककारेणोक्तम्-- `विकारे कोशाड्ढञ्, `{सम्भूतार्थानुपपत्तिः--वा।पाठः`} सम्भूतार्थानुपपत्तेः` (वा। 1,2 4|3|42 इति। विकारस्च कौशेयशब्दात् कृमिकोशस्य प्रतीयते, न खङ्गकोशस्य ; रूढिवशात्। तस्माद्यस्य विकारः प्रतीयते तदभिधायिन एव कोशशब्दाद्युक्कतः प्रत्ययः नेतरस्मात्॥
कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृतत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपतिरिति वार्तिकमेव शरणम् । ठ्तस्य विकारःऽ इत्यत्र प्रकरणे ठेण्या ढञ्ऽ इत्यस्यानन्तरम् ठ्कोशाच्चेति वक्तव्यम्ऽ इत्यर्थः । अर्थानुपपतिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपतिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह---रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ॥
सिद्धान्तकौमुदी
कौशेयं वस्त्रम् ॥
कोशाड्ढञ् - कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः ।विकारे कोशाड्ढ॑ञिति वार्तिकात् ।
कोशाड्ढञ् - केशात् । कौशेयमिति । वस्त्रविशेषे योगरूढोऽयम् । कोशे संभवस्तु सत्कार्यवादाभिप्रायेण । मतान्तरे तु विकारप्रकरणेएण्या ढ॑ञित्यस्यानन्तरंकोशाच्चे॑ति पठितव्यम् । तथा च वार्तिकंविकारे कोशाड्ढञ॑, संभूते ह्रार्थानुपपत्ति॑रिति ।
लघुसिद्धान्तकौमुदी
कौशेयम् वस्त्रम्॥
महाभाष्यम्
कोशाड्ढञ्ञ् (1612) (सम्भूताधिकरणे ढञ्ञ्प्रत्ययः) (5472 प्रत्ययस्यार्थबोधकवार्तिकम्।। 1 ।।) - विकारे कोशाड्ढञ्ञ् - (भाष्यम्) विकारे कोशाड्ढञ्ञ्वक्तव्यः। कोशस्य विकारः कौशेयम्।। (5473 उत्तरसूत्रानुपपत्तिदर्शकवार्तिकम्।। 2 ।।) - संभूते ह्यर्थानुपपत्तिः - (भाष्यम्) संभूत इति ह्युच्यमानेऽर्थस्यानुपपत्तिः स्यात्। न ह्यदः कोशे संभवति। किं तर्हि? कोशस्यादो विकारः।। (प्रथमवार्तिकातिव्याप्तिदर्शकं भाष्यम्) यदि विकार इत्युच्यते, भस्मन्यपि प्राप्नोति। भस्मापि कोशस्य विकारः।। (अतिव्याप्तिनिवारकभाष्यम्) अथ सम्भूत इत्युच्यमाने क्रिमौ कस्मान्न भवति? क्रिमिरपि कोशे सम्भवति। अनभिधानात्। यथैव तर्ह्यनभिधानात्क्रिमौ न भवत्येवं भस्मन्यपि न भविष्यति। अर्थश्चोपपन्नो भवति।।