Page loading... Please wait.
4|3|32 - सिन्ध्वपकराभ्यां कन्
॥ तस्मै पाणिनये नमः ॥
4|3|32
SK 1405
सिन्ध्वपकराभ्यां कन्   🔊
सूत्रच्छेदः
सिन्धु-अपकराभ्याम् (पञ्चमीद्विवचनम्) , कन् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सिन्धुशब्दादपकरशब्दाच् च कन् प्रत्ययो भवति तत्र जात 4|3|25 इत्येतस्मिन् विषये। सिन्धुशब्दः कच्छादिः, ततो ऽणि मनुष्यवुञि च प्राप्ते विधानम्। अपकरशब्दादपि औत्सर्गिके ऽणि। सिन्धुकः। अपकरकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥
सिन्ध्वपकराभ्यां कन् - सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति ।कच्छादिभ्यश्चे॑त्यणिमनुष्यतत्स्थयोश्चे॑ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः । अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्ते इति ।कन्विधि॑रिति शेषः ।
सिन्ध्वपकराभ्यां कन् - सायंचिरं ।नन्वन्तरङ्गत्वात्प्रथमं तुटिमृत्यु॑रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह — -तुटः प्रागिति । इत्यादिति । आदिशब्देनघकालतनेषु॑इति ग्राह्रम् । सायंतनमिति । स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम् ।भाष्यकृतातुमान्ताव्यय॑मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः । तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः ।चिरपुरुत्परारिभ्यस्त्नो वक्तव्यः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति — स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम् । न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थेघकालतनेषु॑इत्युलुकाऽपि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानाट्टउटउलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव टउटउल्विधौ तत्संभवात् । पुरुत्=पूर्वस्मिन्वत्सरे । परारि=पूर्वतरे । अग्रादि । डिमचो डित्त्वं स्पष्टार्थम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.