Page loading... Please wait.
4|3|30 - अमावास्याया वा
॥ तस्मै पाणिनये नमः ॥
4|3|30
SK 1403
अमावास्याया वा   🔊
सूत्रच्छेदः
अमावास्यायाः (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अमावास्याशब्दाद् वुन् प्रत्ययो भवति वा तत्र जातः इत्येतस्मिन् विषये। सन्दिवेलद्यृतुनक्षत्रेभ्यो ऽण् 4|3|16 इत्यादिषु पाठातणो ऽपवादः। अमावस्यकः, आमावास्यः। एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति। अमावस्यकः, आमावस्यः।
Text Unavailable. Please use feedback link below to provide the text if you have.
एकदेशविकृतस्यानन्यत्वादिति । ठमावस्यदन्यतरस्याम्ऽ इत्यत्र ठमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यतेऽ इत्युक्तम् । ण्यति च ठत उपधायाःऽ इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ॥
सिद्धान्तकौमुदी
अमावास्यकः । आमावास्यः ॥
अमावास्याया वा - अमावास्याया वा ।वु॑निति शेषः । पक्षे सन्धिवेलादित्वादण् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः ।
अमावास्याया वा - अमावास्याया वा । सन्धिवेलाद्यणोऽपवादः ।अमावस्यदन्यतरस्या॑मिति सूत्रेणाऽमापूर्वाद्वसेण्र्यति वृद्धौ पक्षे ह्यस्वत्वं निपात्यत इति ह्यस्वमध्यस्याप्यमावस्याशब्दस्येह ग्रहणम्, प्रकृतिग्रहणे विकृतेरपि ग्रहणात् । अमावस्यकः । आमावस्यः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्यस्वोपधं पठन्ति, तेषां तु दीर्घोपधस्य न स्यात्, विकृतिग्रहणेन प्रकृतेरग्रहणादिति हरदत्तादयः । वस्तुतस्तु वृद्धिप्रकृतिभूतस्यानुकरणमिदमित्याश्रित्य ह्यस्वोपधापाठोऽपि समर्थयितुं शक्यत इत्यन्ये ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.