Page loading... Please wait.
4|3|3 - तवकममकावेकवचने
॥ तस्मै पाणिनये नमः ॥
4|3|3
SK 1372
तवकममकावेकवचने   🔊
सूत्रच्छेदः
तवक-ममकौ (प्रथमाद्विवचनम्) , एकवचने (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकवचनपरयोर् युष्मदस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस् तु यथासङ्ख्यं पूर्ववदेव न भवति। ननु च न लुमता अङ्गस्य 1|1|63 इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर् न सम्भवति? वचनात् प्रत्ययलक्षणम् भविष्यति। अथ वा न एव इदं प्रत्ययलक्षणं, किं तर्ह्रन्वर्थग्रहणम्। एकवचने युष्मदसमादी एकस्य अर्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि च इत्येव, त्वदीयः। मदियः।
पूर्वेण युष्माकास्माकयोः प्राप्तयोः `प्रत्ययोत्तरपदयोश्च` 7|2|98 इति त्वमयोरेकवचनेतवकममकावादेशौ विधीयेते। `एकवचनपरयोः` इति। एकवचनं परं याभ्यां ते तथोक्ते। `निमित्तयोस्तु` इत्यादि। यथा पूर्व एव सूत्रे योगविभागान्निमित्तयोरादेशौ प्रति यथासंख्यत्वं न भवति, तथेहापि न भविष्यति। तस्य च यथासंख्याभावस्य पूर्वसूत्र एव योगविभागो हेतुः। तेन हि पूर्वत्र निमित्ते निवृत्ते यथासंख्ये कृते तस्मादिहाप्यनुवत्र्तते। ते निवृत्ते यथासंख्ये एवानुवत्र्तेते; अजहद्धर्मत्वादधिकाराणाम्। तस्मादिहापि पूर्वकयोगविभागाद्यवासंख्यभावः। इह सर्वविधिभ्यो लुग्विधिर्वलवानित्येकवचनस्य लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलोपलक्षणेन समर्थयितव्या। तदपि प्रत्ययलोपलक्षमं प्रतिषेधलक्षणं प्रतिषेधयितुमाह-- `ननु च` इत्यादि। `वचनात्` इत्यादि परिहारः। यदि हि प्रत्ययलोपलक्षणं न स्यादिदं वचनमपार्थकं स्यादित्यभिप्रायः। ननु च यस्यैवक वचनपरता सम्भवति तस्य विशेषणार्थमेकवचनं स्यात्, कस्यैकवचनपरता सम्भवति? निमित्तस्य खञादेः। निमित्ते त्वेकवचनपरत्वेन विशेष्यमाणे सतीहैव स्याताम्-- यौष्माकः पुत्रः, आस्माकः पुत्रः; अत्र ह्रेकवचनपरत्वम्, तद्धि तस्योपपद्यते; इह च न स्याताम्-- तावकाः पुत्राः, मामकाः पुत्रा इति। न ह्रत्र निमित्तस्यैकवचनपरता सम्भवतीति? नैतदस्ति; युष्मदस्मदी पूर्वसूत्रे विशेषे अभूताम्। तथा हि-- खञ्यणि च परतो युष्मदस्मदोरिति खञण्परता तयोः, अत एव युष्मदस्मदी विशेष्येते। तदिहापि तथाभूते एवानुवत्र्तेते; अजहद्धर्मत्वादधिकाराणामिति तयोरेवैकवचनपरत्वं विशेषणं युक्तम्। अथ वा तवकममकयोर्विधेयत्वेन प्राधान्यात् तयोरेवैतद्विशेषणं युक्तम्। तयोरेव तद्विशेषणं भवत् स्थानिद्वारकमेव भवति। यदि स्थानिनोरेकवचनपरता, एवमादेशौ स्थानिवत्त्वादेकवचनपरौ भवतः। तदनेनापि प्रकारेण युष्मदस्मदोरेकवचनविशेषणं युक्तम्। न तु कथञ्चिन्निमित्तस्य खञादेः।`अथ वा` इत्यादि। पुर्वं पारिभाषिकमेकवचनमाश्रित्य व्याख्यातम्, इदानीं त्वर्तमाश्रित्य व्याचष्टे-- एकोऽर्थ उच्यते येन तदेकवचनम्। अत्र तु व्याख्याने `एकवचने` इति नेदं सप्तम्येकवचनम्। किं तर्हि? प्रथमाद्विवचनान्तम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥
तवकममकावेकवचने - तवकममकौ । "एकवचने" इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्ुक्तिः-एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह — एकार्थवाचिनोरिति । छे त्विति ।एकार्थवृत्तयोर्विशेषो वक्ष्यते॑ इति शेषः ।
तवकममकावेकवचने - तवक । इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासङ्ख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति — — तावकीनः । मामकीन इति । परावरापरावराधमोत्तमेभ्यः॑इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेधसूचनार्थम् । तेन दिक्शब्दयोः परावरयोकर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठञ्यतौ बाधित्वा यदेव भवति ।
लघुसिद्धान्तकौमुदी
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -।
महाभाष्यम्
1573 तवकममकावेकवचने (5448 उपसंख्यानवार्तिकम्।। 1 ।।) - एकार्थग्रहणं च - (भाष्यम्) एकार्थग्रहणं च कर्तव्यम्। एकार्थयोर्युष्मदस्मदोरिति वक्तव्यम्। किमर्थम्? न एकवचन इत्येव सिद्धम्? न सिध्यति। किं कारणम्? एकवचनाभावात्। एकवचन इत्युच्यते, न चात्रैकवचनं पश्यामः।। (वार्तिकान्यथासिद्धिबोधकं भाष्यम्) यदि पुनरेकवचनपरत्वेनाण्खञ्ञौ विशेष्येयाताम्। नैवं शक्यम्, इह हि प्रसज्येयाताम् ‐ युष्माकं छात्रो यौष्माकीणः। आस्माकीनः। इह च न स्याताम्। तव छात्रास्तावकीनाः। मामकीनाः। तस्मान्नैवं शक्यम्। न चेदेवमेकार्थग्रहणं कर्तव्यम्।। न कर्तव्यम्। नेदं पारिभाषिकस्यैकवचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्। उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति।। 4-3-1- आ. 4 (764 विधिसूत्रम्