Page loading... Please wait.
4|3|23 - सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च
॥ तस्मै पाणिनये नमः ॥
4|3|23
SK 1391
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च   🔊
सूत्रच्छेदः
सायम्-चिरम्-प्राह्णे-प्रगे-अव्ययेभ्यः (पञ्चमीबहुवचनम्) , ट्यु-ट्युलौ (प्रथमाद्विवचनम्) , तुट् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
कालात्  4|3|11 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82 शेषे  4|2|92
सम्पूर्णसूत्रम्
सायम्-चिरम्-प्राह्णे-प्रगे-अव्ययेभ्यः कालात् ट्यु-ट्युलौ तुट् च प्रत्ययः प्राग्दीव्यतः शेषे
सूत्रार्थः
प्राग्दीव्यतीयेषु शैषिकेषु अर्थेषु सायम्, चिरम्, प्राह्णे, प्रगे - एतेभ्यः शब्देभ्यः तथा कालवाचिभ्यः अव्ययेभ्यः ट्यु/ट्युलौ प्रत्ययौ, तथा प्रत्ययस्य तुट्-आगमः भवति ।
सायम् (= सायंकालः), चिरम् (= नित्यम् / बहुकालम्), प्राह्णे (= प्रातःकालः), प्रगे (= प्रातःकालः) एतानि चत्वारि अव्ययानि अनेनैव सूत्रेण निपात्यन्ते । एतेभ्यः शब्देभ्यः, तथा अन्येभ्यः कालवाचिभ्यः अव्ययेभ्यः प्राग्दीव्यतीय-शैषिकेषु अर्थेषु "ट्यु" तथा "ट्युल्" एतौ प्रत्ययौ भवतः, तथा प्रत्ययस्य "तुट्" अयम् आगमः अपि भवति । कानिचन उदाहरणानि एतानि -

1. "सायम् भवः" इत्यत्र तत्र भवः 4|3|53 अस्मिन् शैषिके अर्थे वर्तमानसूत्रेण ट्यु/ट्युलौ प्रत्ययौ कृत्वा -
सायम् + ट्यु/ट्युल्
→ सायम् + अन [युवोरनाकौ 7|2|1 इति यु-इत्यस्य अन-आदेशः]
→ सायम् + तुट् + अन [सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च 4|2|23 इति तुट्-आगमः । अयम् आगमः आद्यन्तौ टकितौ 1|1|46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । "तुट्" इत्यत्र टकारः इत्संज्ञकः, उकारः च उच्चारणार्थः; अतः "त्" एव अवशिष्यते ।]
→ सायंतन [मोऽनुस्वारः 8|3|23 इति पदान्तमकारस्य अनुस्वारः]
→ सायन्तन [अनुस्वारस्य ययि परसवर्णः 4|8|58 इति अनुस्वारस्य परसवर्णः नकारः]

तथैव - चिरम् + ट्यु/ट्युल् → चिरन्तन । प्राह्णे + ट्यु/ट्युल् → प्राह्णेतन । प्रगे + ट्यु/ट्युल् → प्रगेतन ।

2. "श्वस्" इति कालवाचि अव्ययम् । अस्मात् अव्ययात् अपि वर्तमानसूत्रेण "ट्यु" तथा "ट्युल्" एतौ प्रत्ययौ भवतः -
श्वस् + ट्यु/ट्युल्
→ श्वस् + अन [युवोरनाकौ 7|2|1 इति यु-इत्यस्य अन-आदेशः]
→ श्वस् + तुट् + अन [सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च 4|2|23 इति तुट्-आगमः । अयम् आगमः आद्यन्तौ टकितौ 1|1|46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति ।]
→ श्वस्तन

एवमेव अद्यतन, अनद्यतन, ह्यस्तन, इदानीन्तन, पुरातन, प्राक्तन, दिवातन, दोषातन - एते शब्दाः अपि सिद्ध्यन्ति ।

ज्ञातव्यम् -
1. ट्यु तथा ट्युल् - द्वयोः अपि प्रत्यययोः प्रयोगेन अन्तिमरूपम् तु समानमेव जायते, केवलं स्वरे तत्र कश्चन विशेषः विधीयते । "ट्युल्" प्रत्ययः लित्-अस्ति, अतः लिति 6|1|193 अनेन सूत्रेण प्रत्ययात् पूर्वः यः स्वरः सः उदात्तः जायते । यथा - "सायम् + ट्युल् → सायन्तन" इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति । ट्यु-प्रत्यये तु लकारः इत्संज्ञकः नास्ति, अतः "सायम् + ट्यु → सायन्तन" इत्यत्र यकारोत्तरः अकारः उदात्तः नास्ति, अपितु अनुदात्तं पदमेकवर्ज्यम् 6|1|158 इत्यनेन अनुदात्तस्वरं प्राप्नोति ।

2. अत्र निर्दिष्टायां प्रक्रियायाम् आदौ ट्यु/ट्युल्-प्रत्यययोः "अन"-आदेशं कृत्वा तदनन्तरम् "तुट्" आगमः कृतः अस्ति । यदि "अन"-आदेशात् पूर्वम् एव "तुट्" आगमः क्रियेत, तर्हि किम् भवेत्? "सायम् + ट्यु/ट्युल्" इत्यत्र तुट्-आगमे कृते "सायम् + तुट् + ट्यु/ट्युल्" इति प्राप्ते अग्रे यु-इत्यस्य अन-आदेशः एव न सम्भवति - "तुट्" इत्यस्य व्यवधानात् । (युवोरनाकौ 7|2|1 इति अङ्गाधिकारे अस्ति, अतः अङ्गात् परस्य "यु" प्रत्ययस्यैव अन-आदेशः भवति । अतः अङ्ग-प्रत्यययोः मध्ये तुट्-आगमः भवति चेत् "यु" इत्यस्य अन-आदेशः न जायते) । परन्तु पाणिनिना अष्टाध्याय्याम् अनद्यतने लङ् 3|2|111 इत्यत्र स्वयमेव "अनद्यतन" अयम् शब्दः प्रयुक्तः अस्ति । एतत् अस्यैव ज्ञापकम् यत् अत्र आदौ अन-आदेशं कृत्वा तदनन्तरमेव तुट्-आगमः करणीयः ।

अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -
1. चिर-परुत्-परारिभ्यः त्नः वक्तव्यः - चिर (= नित्यम् / बहुकालम्), परुत् (= गतवर्षे), परारि (= द्वौ वर्षौ पूर्वम्) - एतेभ्यः शब्देभ्यः शैषिकेषु अर्थेषु "त्न" प्रत्ययः भवति । चिर + त्न → चिरत्न । परुत् + त्न → परुत्त्न । परारि + त्न → परारित्न ।
2. प्रगस्य छन्दसि गलोपश्च - "प्रग" (पूर्वम्) अस्य अव्ययस्य विषये वेदानां विषये शैषिकेषु अर्थेषु त्न-प्रत्ययः भवति, तथा प्रग-शब्दस्य "ग" इत्यस्य लोपः अपि भवति । प्रग + त्न → प्रत्न । यथा - ऋग्वेदे 10.4.1 इत्यत्र "धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन्" अयम् निर्देशः कृतः अस्ति ।
3. अग्र-आदि-पश्चात् डिमच् - "अग्र", "आदि", "पश्चात्" - एतेभ्यः शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । डिमच् अयम् डित्-प्रत्ययः , अतः टेः 6|4|143 इत्यनेन टिलोपं कृत्वा रूपं सिद्ध्यति । अग्र + डिमच् → अग्रिम । आदि + डिमच् → आदिम । पश्चात् + डिमच् → पश्चिम ।
4. अन्तात् च - "अन्त" शब्दात् अपि शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । अन्त + डिमच् → अन्तिम ।
One-line meaning in English
The words सायम्, चिरम्, प्रगे, प्राह्णे, and all the कालवाचक-अव्ययानि get the ट्यु and ट्युल् प्रत्यय in the शैषिक-meanings. Also, the ट्यु and ट्युल् प्रत्यय get a तुट् आगम in this context.
काशिकावृत्तिः
कालातित्येव। सायं चिरं प्राह्णे प्रगे इत्येतेभ्यः अव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्च अदिष्टयोः तुडागमो भवति। सायन्तनम्। चिरन्तनम्। प्राह्णेतनम्। प्रगेतनम्। अव्ययेभ्यः दोषातनम्। दिवातनम्। सायम् इति मकारान्तं पदम् अव्ययम्, ततो ऽव्ययादेव सिद्धः प्रत्ययः। यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस् तस्य इदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते। दिवसावसानं सायः। चिरशब्दस्य अपि मकारान्तत्वं निपात्यते। प्राह्णे, प्रगे इत्येकारान्तत्वम्। चिरपरुत्परारिभ्यस्त्नो वक्तव्यः। चिरत्नम्। परुत्नम्। परारित्नम्। प्रगस्य छन्दसि गलोपश्च। प्रत्नम्। अग्रपश्चाड्डिमच्। अग्रिमम्। पश्चिमम्। अन्ताच् च इति वक्तव्यम्। अन्तिमम्।
`कालाट्ठञ्` 4|3|11 इति ठञि प्राप्ते सायमादिभ्यः टउटउलौ विधीयेते, तयोश्च तुडागमः। ठञपवादत्वाच्च् टउटउलोः। ठञैव च्छस्य बाधित्वादेताभ्यां पुनश्छस्य सम्प्रधारणैव नास्ति। तेन वृद्धादपि टउटउलावेव भवतः-- प्राक्तनमिति। `तयोश्च` इत्यादि। यद्यनादिष्टयोस्तुट् स्यात् तदा युरूपौ प्रत्ययौ न भवत इत्यनादेशो न स्यात्। तस्मादादिष्टयोस्तयोः कृतादेशयोस्तुडागमः। एतच्च `घकालतनेषु काल नाम्नः` 6|3|16 इति निर्देशाल्लभ्यते। न ह्रनादिष्टयोस्तुड्विधानेन तनशब्द उपपद्यते। अथ प्रत्ययोष्टित्करणं किमर्थम्, न तुट एव टित्त्वेन प्रत्ययोरपि टित्त्वं विज्ञास्यत इति, यतस्तद्ग्रहणेन ग्रहणादागमानाम्? नैतदस्ति; युक्तं यत् प्रत्ययधर्मा आगमे भवन्ति तस्य प्रत्ययभक्तत्वात्, नत्वागयधर्मा प्रत्यये। तस्माट्टित्कार्यार्थं प्रत्ययोरपि टित्त्वमासज्यते। `स्यतेरन्तकर्मणः` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147) इत्यस्य। `प्राह्णे प्रगे इत्येकारान्तम्` इति। निपात्यत इति सम्बन्धः। ननु च `घकालतनेषु कालनाम्नः` 6|3|16 इति सप्तम्या अलुकैव सिद्धम्, तदपार्थकं निपातनम्? यत्र तर्हि सप्तम्यर्थो नास्ति तदर्थं निपानम् --- ग्राह्णः स#ओढोऽस्य प्राह्णेतनः, प्रगः सोढोऽस्य प्रगेतन इति। अत्र हि `तदस्य सोढम्` 4|3|52 इति प्रथमासमर्थात्प्रत्ययविधानात्सप्तम्यर्थो नास्ति। तदभावत्सप्तम्यपि नास्त्येव।`चिरपरुत्परारिभ्यस्त्नो वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानं तु `तद्धिताः` 4|1|76 इत्यत्रैव कृतम्। एवमुत्तरत्रापि वेदितव्यम्। चिरशब्दस्य सूत्रे चोपादानाट्टउलावपि भवतः। `प्रगस्य च्छन्दसि गलोपश्च` इति।वक्तव्य इति सम्बन्धः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानात् त्विहापि `प्रत्नपूर्वविओमात् थाल् च्छन्दसि` 5|3|111 इतिनिपातनमाश्रित्य कत्र्तव्यम्।`अन्ताच्चेति वक्तव्यम्` (इति)। अन्तशब्दाड्डिमज्भवतीत्येतदर्तरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। डिमचो डित्करणं पश्चादित्यस्य टिलोपार्थम्। ननु च `अव्ययानां भमात्रे टिलोपो वक्तव्यः` (वा।842) इत्यनेनैव सिद्धम्? न सिध्यति; अनित्यत्वात् तस्य। यथा आरातीय इत्यत्र न भवति, तथेहापि न भवतीति कस्यचिद्भ्रानति स्यात्, अतस्तन्निरासार्थं डित्करणम्॥
इह ठ्युवोरनाकौऽ इत्यङ्गाधिकारे विहितत्वादनादेशो बहिरङ्गः, तुडागमस्तु प्रत्ययसन्नियोगेन विधानादन्तरङ्ग इति तेनैव तावद्भवितव्यम्, तत्र कृतेऽनादेशो न प्राप्नोति, किं कारणम् ? अङ्गस्य निमितं यो युस्तस्यानादेशः, तुटि त्वत्र सति त्युशब्दोऽङ्गस्य निमितं न युशब्दमात्रम्, ततश्च यथा मृत्युरित्यत्रानादेशो न भवति, तथात्रापि न स्यात् । यदि पुनरयं तुक् पूर्वान्तः क्रियते ? नैवं शक्यम् ; प्रातस्तनमित्यत्र ह्रि विसर्जनीयो न स्यात्, अपदान्तत्वात् । तस्मात्परादिरेवायं कर्तव्यः, तत्र चानादेशो न प्राप्नोति ? तत्राह---तयोश्चादिष्टयोस्तुडागमो भवतीति । आदिष्टयोरिति कृतादेशयोरित्यर्थः । एष चार्थ आदिष्टशब्दस्य अशेआद्यच्प्रत्ययान्तत्वेन लभ्यते, आदिश्यत इत्यादिष्टः, स ययोरस्ति तावादिष्टौ, तयोरादिष्टयोरिति । एतच्च ठ्घकालतनेषुऽ इति निर्देशाल्लभ्यते, न ह्यनादिष्टयोस्तुड्विधाने नतशब्द उपपद्यते । प्रातस्तनमित्यत्र वृद्धाच्छ्ंअ परत्वाद्वाधत इति नोक्तम् ; च्छस्य बाधकमपि ठञं बाधमानयोष्ट।लुट।लुलोरुत्कृष्टबलयोर्दुर्बलेन छेन सह सम्प्रधारणाभावात् । मकारान्तं पदमव्ययमिति । स्वरादिषु पठितम् । अन्तकर्मण इति । अन्तक्रियस्य, ठ्षोऽन्तकर्मणिऽ इत्यस्येत्यर्थः । यद्यप्यसाववसानमात्रवनाची, घञन्तस्तु सायशब्दो दिवसान्तवचन इति न कालाधिकारस्य बाधशङ्का । प्रत्ययसन्नियोगेनेति । अन्यत्र त्वकारान्त एव, यथा---सायाह्नः, सायतर इति । आह च---संख्याविसायपूर्वस्याह्नस्येति । एकारान्तत्वमिति । निपात्यत इत्यनुषङ्गः । यत्र सप्तम्यर्थो नास्ति---प्राह्णः सोढोऽस्येत्यादौ, तदर्थं निपातनम् । जातादिके त्वर्थे ठ्घकालतनेषुऽ इत्यलुका सिद्धम् । चिरपरुत्परारिभ्य इति । चिरशब्दस्य सूत्र उपादानात् ट।लुट।लुलावाप भवतः, न तु ठ्कियतद्वहुषु कृञोऽज्विधानात्ऽ इतिवत्सूत्रस्य बाधः । परुत् उ पूर्वस्मिन् संवत्सरे, परारि उ पूर्वतरे । प्रत्नशब्दः पुराणवचनः । अग्रपश्चाड्डिमजिति । केचिदत्रादिशब्दमपि पठन्ति---अग्रादिपश्चादिति, ते ठ्मध्यान्मःऽ इत्यत्रादेश्चेति वक्तव्यमिति न पठन्ति । डित्करणं पश्चादित्यत्र टिलोपार्थम् । ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यैवायं प्रपञ्चार्थः ॥
सिद्धान्तकौमुदी
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतने (कौमुदी-2185)इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ॥ ।चिरपरुत्परारिभ्यस्त्नो वक्तव्यः (वार्तिकम्) ॥ चिरत्नम् । परुत्नम् । परारित्नम् ॥ ।अग्रादिपश्चाड्डिमच् (वार्तिकम्) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च (वार्तिकम्) ॥ अन्तिमम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥
महाभाष्यम्
सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (1593) (ठ्युठ्युलोरधिकरणम्) (विद्ध्युपष्टम्भकभाष्यम्) चिरपरुत्परारिभ्यस्त्नो वक्तव्यः। चिरत्नम्, परुत्नम्, परारित्नम्। प्रगस्यच्छन्दसि गलो ‐ पश्च त्नश्च वक्तव्यः। प्रत्नमात्मानम्। अग्रादिपश्चाडि्डमच् स्मृतः। अग्रिमम्, आदिमम्, पश्चिमम्। अन्ताच्चेति वक्तव्यम्। अन्तिमम्।। (वार्तिकावतरणभाष्यम्) अथ सायचिरयोः किं निपात्यते? (5457 निपातनबोधकं वार्तिकम्।। 1 ।।) - सायचिरयोर्मकारान्तत्वं प्रत्ययसांनयुक्तम् - (भाष्यम्) सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियोगेन निपात्यते। सायन्तनम्, चिरन्तनम्।। (वार्तिकाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्, मकारान्तः सायंशब्दः। (प्रत्याक्षेपभाष्यम्) यदि मकारान्तः, कथं सायाह्नः? (प्रत्याक्षेपसमाधानभाष्यम्) सायमोऽह्ने मलोपः। सायमोऽह्ने मलोपो वक्तव्यः। कथं सायतरे? तरे चेति वक्तव्यम्। कथं सायम् साये? वा सप्तम्यामिति वक्तव्यम्।। (वार्तिकावतरणभाष्यम्) अथ प्राह्णप्रगयोः किं निपात्यते? (5458 निपातनबोधकं वार्तिकम्।। 2 ।।) - प्राह्णप्रगयोरेदन्तत्वम् - (भाष्यम्) प्राह्णप्रगयोरेकारान्तत्वं निपात्यते। प्राह्णेतनम्, प्रगेतनम्।। (वार्तिकाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्, सप्तम्या अलुकाऽपि सिद्धम्।। (आक्षेपसमाधानभाष्यम्) भवेत्सिद्धम्, यदा सप्तमी। यदा त्वन्या विभक्तयः, तदा न सिध्यति।। (5459 टित्त्वकरणाक्षेपवार्तिकम्।। 3 ।।) - तुट्युक्तम् - (भाष्यम्) किमुक्तम्? तुट्यादेशानुपपत्तिरनादित्वादिति। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति।। (पूर्वान्तत्वबोधकं भाष्यम्) एवं तर्हि पूर्वान्तः करिष्यते।। (5460 पूर्वान्तत्वे दोषवार्तिकम्।। 4 ।।) - पूर्वान्ते विसर्जनीयः - (भाष्यम्) यदि पूर्वान्तः, विसर्जनीयो वक्तव्यः। प्रातस्तनम्, पुनस्तनम्। परादौ पुनः सति खरवसानयोर्विसर्जनीयः (8।3।15) इति विसर्जनीयः सिद्धो भवति।। (सिद्धान्तोपक्रमभाष्यम्) अस्तु तर्हि परादिः। ननु चोक्तं तुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति। (5461 एकदेशिवार्तिकम्।। 5 ।।) - सिद्धं त्वादिष्टस्य तुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? आदिष्टस्य तुड्वचनात्। तुडादिष्टस्येति वक्तव्यम्। तत्तर्हि वक्तव्यम्? (सिद्धान्तभाष्यम्) न वक्तव्यम्।। (5462 सिद्धान्तवार्तिकम्।। 6 ।।) - संनियोगाद्वा - (भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत् प्राप्नोति? आदेशः।।