Page loading... Please wait.
4|3|2 - तस्मिन्नणि च युष्माकास्माकौ
॥ तस्मै पाणिनये नमः ॥
4|3|2
SK 1371
तस्मिन्नणि च युष्माकास्माकौ   🔊
सूत्रच्छेदः
तस्मिन् (सप्तम्येकवचनम्) , अणि (सप्तम्येकवचनम्) , च (अव्ययम्) , युष्माक-अस्माकौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्मिनिति साक्षाद् विहितः खञ् निर्दिष्यते, न चकारानुकृष्टः छः। तस्मिन् खञि अणि च युष्मदस्मदोर् यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान् न भवति? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोः युष्माकास्माकौ भवतः, ततो ऽणि च इति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिनणि च इति किम्? युष्मदीयः। अस्मदीयः।
`तस्मिन्निति साक्षद्विहितः खञ् निर्दिश्यते` इति। तस्मिन्नित्युक्ते प्रागेव तत्रैव प्रतीत्युत्पत्तेः। तत्र पुनः कारणं साक्षाद्विहित्वम्ानन्तर्याच्च खञः, तस्यैव युक्तः। ननु च पूर्वसूत्रे?ञ्चेति चकारेण च्छोऽनुकृष्यते,वाचकदेशश्च वाच्य इति खञश्छ एवानन्तरो भवति। स्यादनन्तरो यदि चकारस्तस्य वाचकः स्यात्, न चासौ तस्य वाचकः। स हि समीपवर्तिनः पदार्थान्तरस्य सहायतामात्रमाचष्टे। खञः सहायतामाख्याय निवृत्ते चकारे सा सहायता प्रकरणाच्छेनैव विज्ञायते। तस्माच्चकारश्छस्य वाचको न भवतीति नासौ तादृशः।तत्कृतयोस्तस्यानन्तर्य `निमित्तयोः` इत्यादि। द्वे हि निमित्ते-- खञणौ, निमित्तनावपि द्वावेवादेशौ, ततः समानत्वद्यथासंख्येनात्र भवितव्यमिति मन्यमानस् प्रश्नः। `योगविभागः इत्यादि` परिहारः।`युष्मदीयः, अस्मदीयः` इति। यदि `तस्मिन्नणि च` इति नोच्येत तो यथा पूर्वसूत्रविहितयोः खञणोरिमावादेशौ भवतस्तथा च्छेऽपि स्याताम्। तस्मस्तु सति न भवतः॥
साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम्---यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्च्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र ठ्गर्तोतरपदाच्छःऽ इति यावदन्वेषणे च्छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण च्छस्यानुकर्षणमिति न तस्य परामर्शशङ्का । निमितयोरित्यादि । द्वे हि निमिते---खञणौ, निमितिनावपि द्वावेव---आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति । ठ्खञणोर्युष्माकास्माकौऽ इति वक्तव्ये ठ्तस्मिन्नणि चऽ इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमिताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ॥
सिद्धान्तकौमुदी
युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥
तस्मिन् नणि च युष्माकास्माकौ - अथ खञि अणि च विशेषमाह — तस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह — खञि अणि चेति । अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अयमिति विग्रहः । अणि उदाहरति — यौष्माकः आस्माक इति ।
तस्मिन् नणि च युष्माकास्माकौ - तस्मिन्नणि च । तस्मिन्निति साक्षाद्विहितः खञ्निर्दिश्यते, नतु चानुकष्टः । निमित्तयोरादेशौ प्रति यखासङ्ख्यं तु न भवति,खञणो॑रिति वक्तव्ये पृथग्विभक्तिनिर्देशसामथ्र्यात् । स्थान्यादेशयोस्तु इष्यत एव तत् ।
लघुसिद्धान्तकौमुदी
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥
महाभाष्यम्
तस्मिन्नणि च युष्माकास्माकौ (1572) (आदेशाधिकरणम्) (5446 योगविभागे वार्तिकम्।। 1 ।।) - आदेशवचने च - (भाष्यम्) किम्? योगविभागः कर्तव्यः। तस्मिन्नणि युष्माकास्माकौ भवतः। यौष्माकः, आस्माकः। ततः ‐ खञ्ञि। खञ्ञि च युष्माकास्माकौ भवतः। यौष्माकीणः, आस्माकीनः। किमर्थो योगविभागः? समसंख्याप्रतिषेधार्थ इत्येव।। (5447 योगविभागसाधने वार्तिकम्।। 2 ।।) - तत्र पुनः खञ्ञ्ग्रहणम् - (भाष्यम्) तत्र पुनः खञ्ञ्ग्रहणं कर्तव्यम्। न ह्यन्तरेण खञ्ञ्ग्रहणं योगाङ्गमुपजायते।। (योगविभागवाधनप्रत्याख्याने भाष्यम्) तत्तर्हि वक्तव्यम्। न वक्तव्यम्। एवं वक्ष्यामि ‐ तस्मिन् खञ्ञि युष्माकास्माकौ भवतः। ततः ‐ अणि च युष्माकास्माकौ भवत इति।। 4-3-1- आ. 3 (763 विधिसूत्रम्