Page loading... Please wait.
4|3|167 - हरीतक्यादिभ्यश्च
॥ तस्मै पाणिनये नमः ॥
4|3|167
SK 1546
हरीतक्यादिभ्यश्च   🔊
सूत्रच्छेदः
हरीतक्य-आदिभ्यः (पञ्चमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हरीतकी इत्येवम् आदिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति। लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः। हरीतक्याः फलं हरीतकी। कोशातकी। नखरजनी। अत्र च व्यक्तिर् युक्तवद्भावेन इष्यते, वचनं त्वभिधेयवदेव भवति। हरीतक्याः फलानि हरीतक्यः। हरीतकी। कोशातकी। नखरजनी। शष्कण्डी। दाडी। दोडी। दीडी। श्वेतपाकी। अर्जुनपाकी। काला। द्राक्षा। ध्वङ्क्षा। गर्गरिका। कण्टकारिका। शेफालिका। येषां च फलपाकनिमित्तः शोषः। पुष्पमुलेषु बहुलम्। हरीतक्यादिः।
हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका-- इत्येते `संज्ञायां कन्` 5|3|75 इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा-- इत्येतेभ्यः प्राग्ये पठन्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र ओतपाकी, अर्जुनपाकी-- इत्येतौ `पाककर्णपर्ण` 4|1|64 इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् `गौरादिभ्यश्च` 4|1|41 । कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, `एकादेश उदात्तेनोदात्तः` 8|2|5 इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः॥
हरीतक्यादिषु द्राक्षाप्रभृतिभ्यो मयटो लुप्, उदातादिभ्योऽणः, अनुदातादिभ्योऽञः ॥
सिद्धान्तकौमुदी
एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥
हरीतक्यादिभ्यश्च - हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादञि तस्यफले लु॑गिति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधाद्बहुवचनम् ।
हरीतक्यादिभ्यश्च - हरीतक्यादिभ्यश्च । इह द्राक्षाप्रभृतिभ्योनित्यं वृद्धे॑ति प्राप्तस्य मयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः । लिङ्गमेवेति । वचनं तु विशेष्यवदेव,हरीतक्यादिषुव्यक्ति॑रित्युक्तत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.