Page loading... Please wait.
4|3|164 - प्लक्षादिभ्योऽण्
॥ तस्मै पाणिनये नमः ॥
4|3|164
SK 1542
प्लक्षादिभ्योऽण्   🔊
सूत्रच्छेदः
प्लक्ष-आदिभ्यः (पञ्चमीबहुवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
फले इत्येव। प्लक्षाऽदिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण् प्रत्ययो भवति। अञो ऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्। प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। ककर्न्धु। वुहती। प्लक्षाऽदिः।
कः पुनर्लुपि सति विशेषो यतो लुकि प्रकृते स विधीयते? इत्याह--- `युक्तवद्भावो विशेषः` इति। लुपि सति युक्तवद्भावो भवति `लुपि युक्तवद्व्यक्तिवचने` 1|2|51 इति, लुपि सत्येव विशेष इति। `जम्बूः फलम्` इति। अत्र युक्तवद्भावेन प्रकृतिगतमेव लिङ्गं भवति, तेन नपुंसकलिङ्गं न प्रवत्र्तते।`लुप्प्रकरणे` इत्यादि। फलपाकेन शुष्यन्तीति फलपाकशुषः। `अन्येभ्योऽपि दृश्यते` (3।3130) इति क्विप्। `व्रीहयः, मुद्गाः` इति। बिल्वादिभ्योऽणो 4|3|134 लुप्। `यवाः, माषाः`इति। अत औत्सर्गिकस्याणः। एते `तृणधान्यानाम्` (फि।सू।2।27) इत्यादिनाद्युदात्ताः।`पुष्पमूलेषु बहुलम्` इति। पुष्पमूलेषु चाभिधेयेषु बहुलं लुब्भवति। मल्लिका,वनमल्लिका, जातिः, विदारी, अंशुमती, बृहती--अत्रानुदात्तादिलक्षणस्याञो लुप्। मल्लिकानवमल्लिकाशब्दौ `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फि।सू।2।42) इति मध्योदात्तौ। जातिशब्दश्च `क्विच्क्तौ च संज्ञायाम्` 3|3|174 इति क्तिच्प्रत्ययान्तत्वादन्तोदात्तः। बदरीबृहतीशब्दावपि गौरादिङीषन्तत्वादन्तोदात्तावेव। अंशुमतीशब्दः `उगितश्च` 4|1|6 इति ङीबन्तः। अंशुशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वान्मध्योदात्तः। `पाटलानि` इति। बिल्वादित्वादण्। `शाल्वानि मूलानि` इति। शाल्वानीत्यनुदात्तादिलक्षमोऽढ। शाल्वशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। शाल्व इति =शाक इति यस्य प्रसिद्धिः। `क्वचिदन्यदपि` इति। लुपोऽन्यत्रापि क्वचित् कार्यं भवति। तत्पुर्लुक्लुपोरभावश्च। `कदम्बकम्` इत्यादावनुदात्तलक्षणस्याञो लुक्। कदम्बादयः शब्दा `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्ताः। `बल्वानि` इति। अत्रोभयाभावः। `बिल्वादिभ्योऽण्` 4|3|134 । एतत्तु सर्व हरीतक्यादिपाठादेव सिद्धमिति नापूर्व वक्तव्यम्। यतो हरीतक्यादिषु `येषाञ्च फलपाक निमित्तः शोषः; पुष्पमूलेष#उ बहुलम्` 4|3|165 इति पठन्ते॥
अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल7णस्य । तत्र प्लक्षशब्दः ठ्फिषःऽ इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः ठ्लघावन्तेऽ इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च ठ्केवलस्यऽ इत्यैजागमः ॥
सिद्धान्तकौमुदी
विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥
प्लक्षादिभ्योऽण् - प्लक्षादिभ्योऽण् । विकारे अवयवे चे॑ति शेषः । तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः । नन्वस्य फले अणो लुक्कुतो नेत्यत आह — विधानेति ।
प्लक्षादिभ्योऽण् - प्लक्षादिभ्योऽण् । अञोऽपवादः । शिग्रुकर्कन्धूशब्दाभ्याम्ओर॑ञिति, अन्येभ्यस्त्वनुदात्तादित्वादञः प्राप्तिः । प्लक्ष न्याग्रोध अआत्थ इङ्गुदी शिग्रु कर्कन्धू बृहती । तत्र प्लक्षशब्दःफिषः॑इत्यन्तोदात्तः । न्ग्रोधशब्दोलघावन्ते॑ इति मध्योदात्तः । अआत्थशब्दस्तु घृतादित्वादन्तोदात्तः । इङ्गुदीबृहतीशब्दौ गौरादिङीषन्तौ ।आआत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले॑इत्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.