Page loading... Please wait.
4|3|153 - जातरूपेभ्यः परिमाणे
॥ तस्मै पाणिनये नमः ॥
4|3|153
SK 1531
जातरूपेभ्यः परिमाणे   🔊
सूत्रच्छेदः
जात-रूपेभ्यः (पञ्चमीबहुवचनम्) , परिमाणे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनम् अपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाणे इति किम्? यष्टिरियं हाटकमयी।
`मयटोऽपवादः` इति। वृद्धलक्षमस्य सर्वस्य ञित्प्रत्ययान्तस्य वृद्धत्वात्।`एते प्रत्यया गृह्रन्ते` इति। ननु चैकानुबन्धपरिभाषया ष्ट्लञो ग्रहणं न प्राप्नोति? नैष दोषः; `ञितश्च` इति हि चकारस्तत्समुच्चयार्थः। तेन तस्यापि ग्रहणं भविष्यति। ओरञो 4|3|137 ग्रहणेन `अनुदात्तदेश्च` 4|3|138 `पलाशादिभ्यो वा` 4|3|139 इत्येतत्सूत्रग्रहणं वेदितव्यम्; अभिन्नत्वात्। य एवं `ओरञ्` 4|3|137 इत्यनेनाञ्विहितः स एवास्मिन् सूत्रद्वयेऽनुवत्र्तते। `दैवदारवस्य विकारोऽवयवो वा` इत्यादिना यथायोगमेषां प्रत्ययानामुदाहरणादीनि दर्शयति। `कांस्यम् पारशवम्` इति। कंसाय हितमिति `प्राक् क्रीताच्छ-` 5|1|1 कंसीयः। परशवे हितमित्युगवादित्वा 5|1|2 द्यत्। परशव्यस्य विकारोऽवयवो वेति `कंसीयपरशव्ययोर्यञञौ लुक् च` 4|3|166 इति यथासंख्यं यञञौ भवतः, छयतोश्च लुक्-- कांस्यम्, पारशवः; तयोर्विकारोऽवयवो वेत्येनेनाञ्। `बैल्वमयम्` इति। बिल्वशब्दो `बिल्वादिब्योऽम्` 4|3|134 इत्यणन्तः। ततो वृद्धलक्षमे मयडेव भवति। `वैदमयम्` इति। `अनृष` 4|1|104 इत्यादिनाञ्-- वैदः। भवत्ययमञ्प्रत्ययो ञित्, न तु विकारावयवलक्षमः,तेन मयडेव भवति॥
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदातादिभ्योऽञः ॥
सिद्धान्तकौमुदी
अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥
जातरूपेभ्यः परिमाणे - जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह — बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ।नित्यं वृद्धशरादिभ्यः॑ इति मयटोऽपवादः । इतरत्र तुअनुदात्तादेश्चे॑त्यञोऽपवादः ।गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाऽक्षः॑ इत्यमरः । सुवर्णविस्तौ हेम्नोऽक्षे॑ इति च ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.