Page loading... Please wait.
4|3|151 - नोत्वद्वर्ध्रबिल्वात्‌
॥ तस्मै पाणिनये नमः ॥
4|3|151
SK 3454
नोत्वद्वर्ध्रबिल्वात्‌   🔊
सूत्रच्छेदः
नः (अव्ययम्) , उत्वत्-वर्ध्र-बिल्वात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययओ न भवति। द्व्यचश् छन्दसि 4|3|150 इति प्राप्तः प्रतिषिध्यते। मौञ्जं शिक्यम्। गार्मुतं चरुम्। वार्ध्री बालप्रग्रथिता भवति। बैल्वो ब्रह्मवर्चसकामेन कार्यः। तपरकरणं तत्कालार्थम् धूममयानि अभ्राणि। मतुब्निर्देशस् तदन्तविधिनिरासार्थः। इह एव स्यात् वैणवी यष्टिः इति।
`बहुवचननिर्देशात्` इत्यादि। यदि स्वरूपग्रहणमभीष्टं स्यात् तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यादिति भावः। `मयडादीनाम्` इति। आदि शब्दोनाञो ग्रहणम्। बहुवचनं तु पूर्ववत्। तत्र ये वृद्धा हाटकजातरूपप्रभृतयः, तेभ्यो मयटोऽपवादः। ये तु तपनीयप्रभृतयोऽनुदात्तादयस्तेभ्योऽञः। `तापनीयम्` इति। तपनीयशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः॥
मौञ्जमिति । मुञ्जशब्दात् ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः ठ्मृग्रेरुतिःऽ, ठ्ग्रोर्मुट् चऽ इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि ठ्तस्मा एतं गार्मुतं चरुं निर्वपेत्ऽ इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः ठ्लघावन्तेऽ इत्याद्यौदातः, तमादण्, ठ्टिड्ढाणञ्ऽ इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥
सिद्धान्तकौमुदी
उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः-- (कौमुदी-1657)
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.