Page loading... Please wait.
4|3|150 - द्व्यचश्छन्दसि
॥ तस्मै पाणिनये नमः ॥
4|3|150
SK 3453
द्व्यचश्छन्दसि   🔊
सूत्रच्छेदः
द्वि-अचः (पञ्चम्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्व्यचः प्रातिपदिकात् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य पर्णमयी जुहूर्भवति। दर्भमयं वासो भवति। शरमयं बहिर्भवति।
`मयडादीनामपवादः` इति। आदिशब्देनाञः।प्रकृतिभेदात् तयोर्बहुत्वस्य विवक्षित्वाद् द्वयोरपि बहुवचनम्। तत्र तालश्यामाकशब्दाभ्यां वृद्धलक्षणसय् मयटोऽपवादः। बर्हिणो विकारोऽवयवो वेति `प्राणिरजतादिभ्योऽञ्` 4|3|152 इत्यनेन बार्हिणशब्दोऽपि विकारावयवप्रत्यान्तः, तेन तस्मादञ् `ञितश्च तत्प्रत्ययात्` 4|3|153 इति प्राप्तस्याञोऽपवादः। शेषेभ्यस्त्विन्द्रालिशादिभ्योऽनुदात्तादिलक्षणस्याञः। लिशिदृशिभ्यामिन्द्र उपपदे `कप्रकरणे मूलविभुजादिब्य उपसंख्यानम्` (वा।232) इति कप्रत्ययः। `अन्येषामपि दृश्यते` 6|3|136 इति दीर्घत्वम्। `गतिकारकोपपदात् कृत्` 6|2|138 इति कृत्स्वरेणान्तोदात्तौ `इन्द्रालिशेन्द्रादृश` शब्दो। `इन्द्रा घु` शब्दः समासस्वरेणान्तोदात्तः। `चप सान्त्वने` (धातुपाठः-399) `पचाद्यच्` चपशब्दोऽन्तोदात्तः। पीयूक्षाशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्यादात्तः। यद्यप्यस्य टापि कृते `लघावन्ते` (फि।सू।2।42) नास्ति, प्राक्तु टापो विद्यत एव, तस्यामेवावस्थायां मध्योदात्तत्वं भवति।`तालाद्धनुषि` इति पठते। तालशब्दादण् प्रत्ययो भवति धनुष्यभिधेय इति। तालं धनुः, तालमयमन्यत्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; बार्हिशब्दाद्वृदिद्धिलक्षणो मयट् `ञितश्च तत्प्रत्ययात्` 4|3|153 इत्यणा बाधितः। तत्रारम्भसामथ्र्यादन्मयडेव स्यात्। `श्यामाक`-शब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः। तस्मात् `अनुदात्तादेरञ्` 4|2|43 । परत्वाद्वृद्धलक्षणेन मयटा बाधित इतिपुनरारम्भसामथ्र्यादञेव स्यात्। अण्ग्रहमादणेव भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.