Page loading... Please wait.
4|3|15 - श्वसस्तुट् च
॥ तस्मै पाणिनये नमः ॥
4|3|15
SK 1385
श्वसस्तुट् च   🔊
सूत्रच्छेदः
श्वसः (पञ्चम्येकवचनम्) , तुट् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विभाषा इत्येव। श्वःशब्दाद् विभाष ठञ् प्रत्ययो ह्बवति, तस्य च तुडागमो भवति। त्यप्प्रत्ययो ऽप्यतो विहितः, ऐषमोह्रः श्वसो ऽन्यत्रस्याम् 4|2|105 इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शैवस्तिकः, श्वस्त्यः, श्वस्तनः।
तस्य {तस्य चेति इति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं `वुञ्छण्कठच्` 4|2|79 इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते-- सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। `एताभ्याम्` इत्यादि। आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा `सायञ्चिरम्` 4|3|23 इत्यादिना टउटउलौ अपि भवतः॥
तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति---अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवति इति । ठ्सायंचिरम्ऽ इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥
सिद्धान्तकौमुदी
श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥
श्वसस्तुट् च - आसस्तुट् च । तस्येति । प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः ।
श्वसस्तुट् च - आसस्तुट् च । विभाषेत्यनुवर्तनादाह — ठञ्वास्यादिति ।ऐषमोह्रः॑इत्यादिना त्यबपि विकल्पेन विहितः । आभ्यां मुक्ते ठ्युटउलावपि स्त एव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
श्वसस्तुट् च (1585) (ठञ्ञोऽधिकरणम्) (5451 आगमस्य टित्वकरणे आक्षेपवार्तिकम्।। 1 ।।) - श्वसस्तुठ्यादेशानुपपत्तिरनादित्वात् - (भाष्यम्) श्वसस्तुटि कृते आदेशानुपपत्तिः। किं कारणम्? अनादित्वात्। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति।। (तुडागमस्य पूर्वान्तत्वबोधकं भाष्यम्) एवं तर्हि पूर्वान्तः करिष्यते।। (5452 पूर्वान्तत्वे दोषवार्तिकम्।। 2 ।।) - पूर्वान्ते कप्रतिषेधः - (भाष्यम्) यदि पूर्वान्तः, कादेशस्य प्रतिषेधो वक्तव्यः। शौवस्तिकम्। तान्तादिति कादेशः प्राप्नोति। (परादित्वाभ्युपगभाष्यम्) अस्तु तर्हि परादिः। ननु चोक्तं श्वसस्तुठ्यादेशानुपपत्तिरनादित्वादिति।। (5453 परादित्वाभ्युपगतदोषनिराकरणवार्तिकम्।। 3 ।।) - सिद्धं त्वादिष्टस्य तुड्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? तुडादिष्टस्येति वक्तव्यम्।। (5454 सिद्धान्तवार्तिकम्।। 4 ।।) - संनियोगाद्वा - (भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च। किं च? यच्चान्यत्प्राप्नोति। किं चान्यत्प्राप्नोति? आदेशः।।