Page loading... Please wait.
4|3|145 - गोश्च पुरीषे
॥ तस्मै पाणिनये नमः ॥
4|3|145
SK 1525
गोश्च पुरीषे   🔊
सूत्रच्छेदः
गोः (पञ्चम्येकवचनम्) , च (अव्ययम्) , पुरीषे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोशब्दात् पुरीषे ऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीषे इति किम्? गव्यं पयः। पुरीषं न विकारो न च अवयवः, तस्य इदं विषये विधानम्। विकारावयवयोस् तु गोपयसोर्यतं वक्ष्यति।
`मयटोऽपवादःरट इति। पूर्वसूत्रेण प्राप्तस्य। ननु च संज्ञायां कनं वक्ष्यत्येव, तदपार्थकं तद्विधानम्? नैतदस्ति; स ह्रल्पादिष्वर्थेषु, अयं तु विकारे। तदिदं सार्थकम्; अर्थभेदात्॥
गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह---पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव ठ्तस्येदम्ऽ इत्यधैकारे ठ्गोर्मयट्ऽ इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥
सिद्धान्तकौमुदी
गोः पुरीषं गोमयम् ॥
संज्ञायां कन् - संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह — पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् ।तुङ्गमनपूपाकृतिमआशफमात्रं पुरोडाशं करोती॑ति श्रुतेः ।
गोश्च पुरीषे - गोस्च पुरीषे । पुरीषं न विकारो, नाप्यवयवः, तथापितस्येद॑ मित्यर्थेऽयं प्रत्ययः । विकारावयवोस्तु गोपयसोर्यतं वक्ष्यति । पुरीषे किम् । गव्यं पयः ।
लघुसिद्धान्तकौमुदी
गोः पुरीषं गोमयम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.