Page loading... Please wait.
4|3|140 - अनुदात्तादेश्च
॥ तस्मै पाणिनये नमः ॥
4|3|140
SK 1520
अनुदात्तादेश्च   🔊
सूत्रच्छेदः
अनुदात्त-आदेः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुदात्तादेः प्रातिपदिकातञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्।
`अञोऽपवादः` इति। शमीशब्दसय् गौरादित्वान्ङीषन्तस्य प्रत्ययस्वरेणान्तोदात्तस्यानुदात्तादित्वात्। टकारो ङीबर्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
दाघित्थम् । कापित्थम् ॥
अनुदात्तादेश्च - अनुदात्तादेश्च ।विकारे अ॑ञिति शेषः ।अवयवे चे॑ति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् ।कपित्थे तु दधित्थग्राहिमन्मथाः॑ इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ ।
अनुदात्तादेश्च - दाधित्थमिति । दधनि तिष्ठतीतिसुपि स्थः॑इति कः । उपपदसमासः । पृषोदरादित्वात्सकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । एवं कपित्थेऽपि बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनुदात्तादेश्च (1709) (अञ्ञोऽधिकरणम्) (5533 पूर्वपक्षवार्तिकम्।। 1 ।।) - अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानम् - (भाष्यम्) अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानं कर्तव्यम्। कुवली-कौवलम्,बदरी ‐ बादरम्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। निघाते कृतेऽनुदात्तादेरित्येव सिद्धम्। न सिध्यति। किं कारणम्? (5534 एकदेशिसमाधानवार्तिकम्।। 2 ।।) - पदस्य ह्यनुदात्तादित्वम् - (भाष्यम्) पदस्य हि निघातः, सुबन्तं च पदम्, ङ्याप्प्रातिपदिकाच्च प्रत्ययो विधीयते।। (5535 समाधानवार्तिकम्।। 3 ।।) - न वा समर्थस्यानुदात्तादित्वात् - (भाष्यम्) न वा वक्तव्यम्। किं कारणम्? समर्थस्यानुदात्तादित्वात्। समर्थमनुदात्तादित्वेन विशेषयिष्यामः।। नैवं शक्यम्। इह च प्रसज्येत ‐ वाचो विकारः, त्वचो विकार इति। एतद्धि समर्थमनुदात्तादि। इह च न स्यात् ‐ सर्वेषां विकारः सर्व इति। तस्मान्नैवं शक्यम्।। न चेदेवमुपसंख्यानं कर्तव्यम्। न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति ‐ यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात इति, यदयं भिक्षादिषु गर्भिणीशब्दस्य पाठं करोति। कथं कृत्वा ज्ञापकम्? भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत्प्रयोजनम्अनुदात्तादिलक्षणोऽञ्ञ् मा भूदिति। यदि च पदस्य निघातः, गर्भशब्दोऽयमाद्युदात्तस्तस्मादिनिः। इन्नन्ताद्यः प्रत्ययः प्राप्नोति स तावत्स्यात्। तस्मिन्नवस्थिते निघातः। तत्र कोऽनुदात्तादिलक्षणस्याञ्ञः प्रसङ्गः? पश्यति त्वाचार्यः ‐ यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात इति। अतो भिक्षादिषु गर्भिणीशब्दं पठति।। (पदकृत्यभाष्यम्) पदग्रहणं किमर्थम्? (5536 समाधानवार्तिकम्।। 4 ।।) - पदग्रहणं परिमाणार्थम् - (भाष्यम्) पदग्रहणं क्रियते, परिमाणार्थम्। पदावधेर्यथा स्यात्, वाक्यस्य मा भूत् ‐ अनुदात्तं पदमेकवर्जम् (6।1।154) इति।।