Page loading... Please wait.
4|3|128 - शाकलाद्वा
॥ तस्मै पाणिनये नमः ॥
4|3|128
SK 1508
शाकलाद्वा   🔊
सूत्रच्छेदः
शाकलात् (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शाकलशब्दात् सङ्घादिषु प्रत्ययार्थविशेषनेषु वा अण्प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञो ऽपवादः। शाकलेन प्रोक्तम् अधीयते शाकलाः। तेषां सङ्घः शाकलः, शाकलकः। शाकलो ऽङ्कः, शाकलको ऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः।
`वुञोऽपवादः` इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। `शाकलाः` इति। शाकल्यशब्दाद्गर्गादियञन्तात् `कण्वादिभ्यो गोत्रे` 4|2|110 इति प्रोक्तार्थेऽ ण्। `आपत्यस्य च तद्धितेनाति` 6|4|151 इति यलोपः। शाकल इति स्थिते `तदधीते तद्वेद` 4|2|58 इत्यण्, तस्य प्रोक्ताल्लुक् 4|2|63 --शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा॥
वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति---शाकलेन प्रोक्तमिति ॥
सिद्धान्तकौमुदी
अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥
शाकलाद्वा - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् "गोत्रचरणा" दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.