Page loading... Please wait.
4|3|127 - संघाङ्कलक्षणेष्वञ्यञिञामण्
॥ तस्मै पाणिनये नमः ॥
4|3|127
SK 1507
संघाङ्कलक्षणेष्वञ्यञिञामण्  
सूत्रच्छेदः
संघ-अङ्क-लक्षणेषु (सप्तमीबहुवचनम्) , अञ्-यञ्-इञाम् (षष्ठीबहुवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सङ्घाऽदिषु प्रतयार्थविशेषणेषु अञनताद्, यञन्ताद्, इञन्ताच् च प्रातिपदिकादण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य वुञो ऽपवादः। घोषग्रहणम् अत्र कर्तव्यम्। तेन वैषम्याद् यथासङ्ख्यं न भवति। अञनतात् बैदः सङ्घः। बैदा ऽङ्कः। बैदम् लक्षणम्। बैदो घोषः। यञन्तात् गार्गः सङ्घः। गार्गो ऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् दाक्षः सङ्घः। दाक्षो ऽङकः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः? लक्षणं लक्ष्यभूतस्य एव चिह्नभूतं स्वं यथा विद्या बिदानाम्, अङ्कस्तु गवादिस्थो ऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। वैदी विद्या अस्य वैदीविद्यः।
तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात्? घोषे च प्रत्ययो न स्यात्। `बैदः` इति। `अनृष` 4|1|104 इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। `लक्षणम्` इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव? अत आह-- `णित्करणम्` इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे` 6|3|38 इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्॥
पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह---तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह---लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥
सिद्धान्तकौमुदी
घोषग्रहणमपि कर्तव्यम् (वार्तिकम्) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (1697) (अण्प्रत्ययाधिकरणम्) (5521 सिद्धान्तवार्तिकम्।। 1 ।।) - सङ्घादिषु घोषग्रहणम् - (भाष्यम्) सङ्घादिषु घोषग्रहणं कर्तव्यम्। गार्गो घोषः, वात्सो घोषः। (एकदेशिनो णकारप्रयोजनभाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णिति इति वृद्धिर्यथा स्यात्।। (5522 पूर्वपक्षवार्तिकम्।। 2 ।।) - सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) सङ्घादिषु प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत् प्रातिपदिकम्।। (5526 समाधानवार्तिकम्।। 3 ।।) - लिङ्गपुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) लिङ्गपुंवद्भावप्रतिषेधार्थं तु णकारः कर्तव्यः। लिङ्गार्थम् ‐ वैदी। पुंवद्भावप्रतिषेधार्थम् ‐ वैदी स्थूणाऽस्य वैदीस्थूणः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात्।।