Page loading... Please wait.
4|3|123 - पत्राध्वर्युपरिषदश्च
॥ तस्मै पाणिनये नमः ॥
4|3|123
SK 1503
पत्राध्वर्युपरिषदश्च   🔊
सूत्रच्छेदः
पत्र-अध्वर्यु-परिषदः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्युपरिषच्छब्दाभ्यां च अञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। अणो ऽपवादः। पत्राद् वाह्रे। अश्वस्य इदं वहनीयम् आश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्।
`पत्राद्वाह्रे` (वा।474) इत्यवधारणमत्र द्रष्टव्यम्-- पत्त्राद्वाह्र एवेति। अन्यत्र कस्मान्न भवत? अनभिधानात्। अथ किमर्थं न पूर्वेण सहैकयोग एव क्रियते-- `पत्त्रपूर्वपत्राध्वर्युपरिषदोऽञ्` इति? नैवं शक्यम्; एवं हि पूर्वपत्त्रपूर्वात् प्रातिपदिकादन्यतोऽपि प्रसज्येत। योगविभागे पूर्वस्मिन् योगे रथादित्यनुवृत्ते रथ एव पत्त्रपूर्वग्रहणेन विशेष्यत इति न भवत्यतिप्रसङ्गः। एकयोगे तु रथाद्यनुवृत्तौ सत्यां यथा पत्त्रपूर्वतया रथो विशेष्यते, तथा पत्त्रादिभिरपि रथ एव निशेष्यते इत्यनिष्टं स्यात्। तस्माद्योगविभाग एव न्याय्यः॥
पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ॥
सिद्धान्तकौमुदी
अञ् ॥ ।पत्राद्वाह्ये (वार्तिकम्) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥
पत्त्राध्वर्युपरिषदश्च - पत्राध्वर्यु । अञिति । शेषपूरणम् । पत्रादिति ।पत्राद्बाह्र एवे॑ति वक्तव्यमित्यर्थः । आआमिति । पत्रेत्यर्थग्रहणमिति भावः । आध्वर्यवं, पारिषदमिति । अध्वर्योरिदं परिषद इदमिति विग्रहः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.